________________
(ER)
श्री कल्पसूत्रार्थप्रबोधिनी.
भगवान् गर्भस्थ एव खल्वीदृशमभिग्रहमकरोत् - यदधुना गर्भगतेऽपि मयीदशो दरीदृश्यते जनन्या मोहस्तर्हि जननानन्तरं कियान् भविष्यति ?, नूनमहं मातापित्रोर्जीवतोर्दीक्षां नैव लास्यामि । यतः पशूनामास्तन्यपानाज्जननी मान्या भवति, अधमानां स्त्रीलाभावधिरेव, मध्यमानान्तु गृहकृत्य सम्पादनावधिरेव जननी पूज्या तिष्ठति । ये खलुत्तमास्ते तु यावज्जीवमेव प्रसूं तीर्थमिव खल्वर्चन्ति ।
३२ त्रिशलाया गर्भपालनं दोहदपूर्त्तिश्च
"
"
I
अथ त्रिशला सुस्नाताऽनुलिप्ता कृतभगवदार्हितबिम्बार्चना, विधि - वदनुष्ठित कौतुकमङ्गला, सर्वाभरणविभूषिता, गर्भरक्षणाय यान्यतिशीतानि, अत्युष्णानि, अतितिक्तानि अतिकटूनि अतिकषायाणि, अत्य म्लानि, अतिमधुराणि, अतिस्निग्धानि, अतिरुक्षाणि, अत्यार्द्राणि, अतिशुष्काणि, खाद्यपेयादीनि तानि न सिषेवे किन्तु सर्वर्तुकालाहित - कारीण्येव । यतः - प्रावृषि लवणः शरदि वारि, हेमन्ते गोक्षीरम्, शिशिरे चाऽऽम्लरसः, वसन्ते घृतं प्रान्ते च गुडोऽमृतं भवति । ये खलु वातिकाः पैत्तिकाः श्लेष्मकराः सन्ति, ते गर्भहितानि नो भवन्ति । यदाह - वातिकाऽशनाद गर्भः कुब्जोऽन्धो जडो वामनो वा जायते । पैत्तिकभक्षणात्तत्पातो भवति, शरीरे च पीतिमा जायते । श्लेष्मणः खादनात् पाण्डुरोगी श्वेतकुष्ठी वा कर्बुराऽऽभो जायते गर्भः । अधिकलवणाऽशनादन्धः, अधिकशीतलाऽन्नभक्षणाद्वातुलः, अत्युष्णाऽऽहाराइलहीनो जायते, यभनाधिक्यांश्च म्रियते गर्भः । अतएव सा त्रिशला विदुषी मैथुनम् १, शकटाद्यारोहणम् २, मार्गे चलनम् ३, विषमोन्नतस्थानात्पतनम् ४, कूर्दनम् ५, अङ्गमर्दनम् ६, प्रधावनम् ७, पशुदा स्यादिताडनम् ८, विषमशयनाऽऽसनम् ९ - १०, मलमूत्रादिवेगरोधनम्, ११, घृतादिशून्यमति रूक्ष भोजनम् १२, अतितिक्तसुंठी पिप्पल्यादि १३, अतिकटुनिम्बादि १४, अधिकभोजनम् १५, अतिशोकम् १६, अतिक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org