________________
चतुर्थ व्याख्यानम् ।
(६३) रवस्तुसेवनम् १७ अतिपरिश्रमम् १८, वमनम् १९, विरेचनम् २०, झूलनम् २१, अट्टाहासादि २२, विजहाति स्म । कुलवृद्धातिदक्षाः सीमन्तिन्यस्तामेवं शिक्षयन्ति स्म-दिवा स्वापाद् गर्भः शयालुरत्यञ्जनादन्धः, रोदनाच्च जातस्य नयनयोर्वैकल्यम् , स्नानानुलेपनादुःशीलः, तैलाभ्यगात्कुष्ठी नखच्छेदात्कुनखी, प्रधावनाच्चञ्चलः, अतिहासाच्छयामदन्तौष्ठतालुजिह्वः, अतिभाषणात्प्रलापी, अतिघोरशब्दश्रवणाद् बधिरः, अव. लेखनात्स्खलनं भवति । अतो मन्दं मन्दं ब्रज, उच्चैर्मा वद, कोपं विजहाहि, पथ्यमशान, नीवीं दृढं मा बधान, उच्चैरधिकं वा मा हासीः, बहिः सौधशिखरादौ मास्वाप्सीः, अतिनीचैर्मागाः, अत्युच्चै र्वा मारोहीः, एवं सुशिक्षिता त्रिशलादेवी हितं मितं भुञ्जाना निर्दोषमृदुशयनाऽऽसनादौ शयनोपवेशने विदधाना मनसि प्रमोदभरं दधाना दोहदं व्यनक्ति स्म । यथा-सर्वत्राऽमारि पटहं व्यातनवानि, दानं घनं दद्याम् , सद्गुरूनभ्यर्चयेयम् , भगवदर्चा विदध्याम् , सङ्घ च वात्सल्यं करवाणि, सिंहासने खल्लु समासीना, शिरसि धृतसितातपत्रोभयतः सितचामराभ्यां वीज्यमाना, नरपालमौलिमणिलालितपादपीठा, सागरान्तामेतां वसुन्धरां शासानि, पुरःस्फुरत्पताका, वादित्रनिनादमुखरीकृतदिगङ्गना, लोकारब्धजयध्वनिना संस्तूयमाना, कुञ्जराऽऽसीना, प्रमोदभरोद्याने खल क्रीडानि । इत्यादयो ये ये दोहदा उत्पेदिरे, तानशेषान् सिद्धार्थो राजा परिपूरयामास । अथैकदा त्रिशलाया ईदृशो दोहदोऽध्यजायतयदहमिन्द्राणीश्रुतिकुण्डले परिदध्याम् । परमेतं परिपूर्ण कर्तुं राजा नाऽशकत् , अतएव खिद्यमानाऽभवत्सा । तदा शक्रासनं चचाल, अवधिना च तत्कारणं विज्ञाय देवाङ्गनाभिभूयसीभिः परिवृत इन्द्राणी लात्वा भगवतो महावीरस्य जनन्या दोहदपूरणाय क्षत्रियकुण्डनगरासन्नवर्तिन एकस्याऽतिदुर्गमनगस्योपत्यकायामिन्द्रपुरनामकं नगरमधिवास्य सपरिवारः सुखेन न्यवसत् । तदा सिद्धार्थो राजा निजप्रेयस्या दोहदपूत्यै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org