________________
चतुर्थ व्याख्यानम् ।
(६१) नाथां मां कस्त्रास्यते ?, यन्मे शत्रवो बहवः सन्ति । सर्पो जगाद‘शत्रुभीतिं मा कृथाः। यथा त्वां न बाधिष्यन्ते, तथा दिव्यमौषधं ददामि, तन्मूलं पाषाणोपरिजलेन घृष्ट्वा तेन जलं यं यं सेक्ष्यसि, स स भस्मसाद् भविष्यत्येव ' इत्याभाष्य तस्यै तदौषधमदात् । तल्लात्वा सा तत्रैव प्रस्तरे जलेन घृष्टा तजलं सर्पोपरि क्षेप्तुं लग्ना । अहिरवोचत-अरे ! मयैव ते दत्तं मामेव हंसि ? । तदा 'पुरा त्वमेव न्यगादी र्यदगुणस्य भ्राता दोषो जागर्तीति सर्वं सहस्व, किमपि माऽवादीः' इति निगदन्ती सा भोगिनं भस्मसादकरोत् । ईदृशमेव जनन्या मनोरथं विदित्वा भगवानङ्गुल्यायेकदेशमकम्पयत ।।
ततोऽस्त्येव मे गर्भ इति हृष्टा सा त्रिशला हर्षोरफुल्लनयना, निःसीमहर्षपूर्णहृदया, विज्ञातगर्भकुशला, शारदपूर्णचन्द्रमुखी, पुलकिताङ्गा सती मधुरया गिरा सख्यादीनवोचत-सख्यः ! सन्ति मे भाग्यानि, भविष्यामि च त्रिभुवनकामिनीजनमान्यतमा, जीवनमपि कृतकृत्यतामापत् , जनिरपि मामकी साफल्यमभविष्ट, प्रसेदुश्च जिनेन्द्रचरणाः, कृताश्च गोत्रदेवताभिः प्रसादाः, फलितश्च मे यावज्जीवमाराधितः शाश्वताऽऽर्हतधर्मकल्पवृक्षः । इत्थं गर्भकौशल्येनाऽतिप्रसन्नां त्रिशलामवलोक्य सर्वे लोका अमन्दानन्दसन्दोहा अजायन्त । प्रावृतंश्च कौलिका. इनानां धवलानि, प्रतिस्थानमुत्तम्भितानि निकेतनानि शुशुभिरे, विरे. जिरे च विन्यस्तमौक्तिकस्वस्तिकाः, इत्थमानन्दाऽद्वैतमयं तद्राजकुलं साकल्येन जज्ञे, नृत्यगीताऽऽतोद्यादिभिश्च लुरलोक इव सुषमा तत्र सर्वत्र विततान । अग्रहीद्राजा जनोपदीकृतां धनकोटिम् , व्यस्राक्षीच्च कल्पशाखीव दीनाऽन थयाचकेभ्यः कोटिधनानां प्रमोदभरः । ३१ गर्भगतस्य भगवतोऽभिग्रहधारणम्
अथैवं मातुर्मोहमीदृशमवलोकमानः पक्षाधिके षण्मासे व्यतीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org