________________
(६०)
श्रीकल्पसूत्रार्थप्रबोधिनी. अचीकरं वा जिनचैत्यनिपातनानि । इत्थमाक्रोशन्ती, सोद्वेगं सख्यादिना पृष्टा नास्ति मे गर्भक्षेममित्यालपन्ती, त्रिशला क्षितिनिपतिता मूर्छामाप । शोकाक्रान्ते दास्यादिसकलपरिवारे तत्स्वरूपं जानानः सिद्धार्थराजोऽपि महाशोकसागरे निपपात, न्यवृतच्च नृत्यगीतादिमहोत्सवः । किमधिकं सर्वथा शोकराजधान्येव संजाता सा नगरी । ३० भगवति पुनः स्पन्दमाने मातापित्रोहर्षवर्णनम्____अनावसरे भगवान्महावीरोऽवधिना मातापित्रोर्मोहमवलोकमानो दध्यौ-अहो ! कीदृशं मोहमाहात्म्यम् , येनेदृशं व्यतिकरमभवत् । नूनं यदकारि मातुः प्रमोदाय तदपि खेदकारि जातम् , व्यनक्ति. चैतत्कलिकालस्य भविष्यतो लक्षणम् । यथा नालिकेरोदके क्षिप्तः कर्पूरो मृत्यवे भवति, तथा पञ्चमारके गुणोऽपि दोषकृदेव भविष्यति लोकानाम् । तथाहि-कश्चित्पथिकः परदेशतः कृतविपुलधनोपार्जनः स्वसदनमागच्छन्मार्गे कस्याञ्चिदटव्यां सर्वतः प्रसृत्वरे दावानले दन्दह्यमानेन महाकायेन भोगिनाऽभ्यर्थितः-भोः पान्थ ! माममुष्मात्सङ्कटादव । ततः स पान्थस्तं महाहिं दवमध्याद् बहिरकरोत् । सर्पोऽवदत्-पान्थ ! तिष्ठ, अहं त्वां दक्ष्यामि । पान्थोऽजल्पत्-भोगिन् ! अधुनैव दवादस्मात् त्रातवाँस्त्वामहं तत्कथं विसस्मर्थ, यदुपकर्तारमेव मां दिदझसि ?, नाऽयं धर्मः । भोगी जगाद-सत्यमुक्तं त्वया, परमयन्तु कलिकालो वर्ति ! अस्मिन् कलौ य उपकरोति, स एव हन्यते । पान्थोऽव. दत्-भोगीन्द्र ! बहुवर्षादहं गृहं गच्छामि, सार्थे च धनानि विद्यन्ते, अतोऽधुना गृहं गन्तुमनुजानीहि, तत्र गत्वा धनानि स्त्रियै दत्त्वा पुनरिहाऽऽयातं मां सुखेन भुञ्जीथाः। नाऽऽगच्छामि चेद्विश्वासघातिनामलीकभाषिणश्चपातकानि मे स्युरिति शपथं कृत्वा निजसदनमागत्य भार्यायै धनानि दत्त्वा सर्वमेतदाभाष्य पुन स्तत्रैवाऽऽगात् । तत्पश्चात्तत्पन्यपि तत्राऽऽययौ । सा च करुणं रुदती सर्प जगाद-त्वया मे पत्यौ भक्षितेऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org