SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चतुर्थ व्याख्यानम् । (८६) पीयसां पिपासूनां पीयूषपानमिव, हतभाग्याया मम कुक्षौ तादृशो महीयान् गर्भः कथं तिष्ठेत् ? । हा ! ! धिग् दुर्विधे ! त्वया किमकारि, यदयं मनोरथतरुस्त्वया मे समुन्मूलितः। नूनममुना दुर्घटितेन त्वां निघृणमकारणं कुटिलं जानामि, यदनपराधिनी मामेवमद्वेट् । निर्विचारेण त्वया मे दत्त्वापि लोचनयुगलमकाण्ड एवाऽपाहारि ?, कलङ्कविकलं निधिरलं प्रदायापि पुनरधमेन भवता कथमुद्रालितम् ?, नूनं भवान् पापीयान्मां मेरुशिखरं चटयित्वा पुनरपीपतत् १, परिवेष्यापि वा भोजनं पुनस्तदाकाक्षीः ?, किमपराद्धं भवान्तरेऽमुत्र वा येनेदृशमनर्थमकार्षीः ? । हा ! ! किमहं कुर्याम् , कस्याऽग्रे वा वदेयम्, क वा गच्छेयम् ?, यदहमनवसर एवाऽमुना मुग्धा दग्धा, जग्धा च । किं मे राज्येन धनेन वा ?, भोगसुखैर्वा विषयजैरलम् , किमेतेन वा दुकूलशय्याऽऽसनादिपरिपूर्णशर्महम्र्येण ? । गजवृषभादिमहास्वप्नसंसूचितं समु. चितं त्रिजगजनपूज्यं चराऽचराऽऽनन्दिसुतरत्नं विना सर्वमेतविफलमेव जज्ञे। __ मया जन्मान्तरे तथाविधो दुष्कृतराशिरकारि, तत्परिपाकमेव भुझे। यदाहुमहर्षयः-यः खलु पशुपक्षिमानवशिशुन् वियोजयते, सोऽवश्यं भवान्तरे निरपत्यतां याति, जातं वा तदपत्यं विनश्यति । अथवा कस्याश्चिच्छिशुरपहृतः, बालहत्याभ्रूणहत्यादिमहापापानि वा विहितानि, गर्भ वा कासाञ्चिदपातयम् , नीडानि वा साण्डानि पातितानि, शप्तो वा सपत्नीप्रमुखकामिनीजनः, वियोजितो वा मात्रा डिम्भः, विनाशितं वा शीलमन्यस्याः , गृहीतं व्रतं वाऽभनजम् , अदहं वा परेषां सदनानि, अचूचुरं वा परकीयं रत्नम् , अमीमरं वा सपत्नीनामपत्यम् , अच्छिदं वा महान्तं समूलमपि वृक्षम् , अशुशुषं वा वापीकूपतडागादि, अनीनशं वा परेषां कीर्तिसन्तति गुर्वीम्, अद्विषं गुरून् वा देवान्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy