SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ (८८) श्रीकल्पसूत्रार्थप्रबोधिनी. दयः, घटिताऽघटितप्रकारद्वयानि कनकानि. कर्येतनादिरत्नानि. चन्द्र. कान्तोपलादिमणयः, मौक्तिकानि, दक्षिणावर्तशखाः, राजपदादिरत्न विशेषाः, प्रबालानि पद्मरागादिका मणयः कौशेयादि हाईवस्त्राणि, कम्बलादीनि, सर्वाग्येतानि वास्तविकानि नविन्द्रजालोरमाने सारतराणि स्वापतेयानि किलैधाश्चक्रिरे ! एवं सिद्धार्थराजस्य मानसीप्रीतिः स्वजनप्रजाजनादिविहितोपहारादिभक्तिश्च वरीवृध्यते स्म । अतएव मातापितरौ प्रागेव मानले निश्चिक्याते-यदमुष्य शिशोः सर्वद्धिविवर्द्धनादन्वर्थं वर्द्धमान ' इति शुभाभिधानं जनानन्दकरं धरिष्यावः । २८ मातुरनुकम्पया वीरस्य गर्भेऽस्पन्दनं तदुत्प्रेक्षा च -- अत्रावलरे भगवान्महावीरो मयि स्पन्दनाने जनन्याः खेदो मा जायतामिति मातर्यनुकम्पतं विदधानः कुक्षौ मनागपि नो पस्पन्दे । सर्वाङ्गोपाङ्गं गोषयन्नेत्र तत्र गर्ने विलीनोऽभवत् । अतएवमुत्प्रेक्षितवन्तः कविवराः-किमेष भगवान् गर्भस्थिति जादातहप्तमोहमहीभुजं विजिगीषुरेकान्ते कामपि मात्रणां व्यधत्त ?, किमुत वाङ्मनसोरो रं परब्रह्मरूपं विचिचिन्त ?, किम्बा कल्याणरसनत्युत्कटं प्रससाध ?, अथवा त्रिभुवनजनाऽजय्यमदनविजयसिषाधयिषधा किलात्मरूपं विलुलोप ? । २९ त्रिशलाया गर्भापहारशङ्कया शोकः---- इत्थं नैश्चल्येन तत्र में भगवति संस्थितेऽपि तदसञ्चारमपश्यन्ती त्रिशला शङ्किता जाता-हं हो ! किं मे गर्भ चुच्योत, गलितो वा, केनचिद्देवादिना हृतः किम् ?, यदधुना पुरेव जात्वपि मनागपि नैजते । इत्थं गर्भाऽपहारं विजानाना शोशुच्यमाना, त्रिशलादेवी चिन्तोदधौ निर्ममज । अतएव वजाहता लतेव विचेतना सती शीतोपचारादिना लब्धचेतना सा विलपितुं लग्ना-नूनमहं हतभाग्या जाता ऽस्मि । भाग्यहीनसद्मनि चिन्तामणिरिव, निर्धनालये कल्पतरुरिव, पा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy