SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्थ व्याख्यानम् । (८७) ग्रामस्था सन्निवेशा:- स्कन्धावारसङ्घ- सार्थवाहादीनामुत्तरणस्थानानि शृङ्गाटक:त्रिकोणाकारं स्थानम् त्रिकम् - मार्गत्रयमेलनस्थानम्, चतुष्कानिचतुर्मार्ग संमेलन स्थानानि चराणि बहुमार्गमेलनस्थानानि चतुर्मुखानि - देवकुलच्छत्रिकादिस्थानानि महास्था - राजमार्गाः, नानि - जनोज्झितग्रामाः, नगरस्थानानि शून्यन राणि ग्राम्यजलनि र्गम (खाल) स्थानानि नगरजलनिर्गमनस्थानाने वा, आपणस्थानानि, यक्षाद्यायतनानि समानानि प्रपास्यानानि, कल्यायावृतदम्पती क्रीडास्थानानि, फलपुष्पाढ्य महीरुहशोभित बहुजन भोग्योद्यानानि, एकजातीयतरुमालाशालिवनानि नानाजातीयसद्वृक्षमालोल्लसितानि वनखण्डानि श्मशान - शून्यागार - गिरिगह्वरस्थानानि, शान्तिकर्मस्थानानि, पर्वतगृहाः, भवनगृहाः- कुटुम्बि जनवसतिस्थानानि । एषु स्थानेषु प्रा कृपणादिनिहितानि निःत्वामिकानि यानि मणिमणिक्यादिमहानिधानानि तानि सकलानि तिर्यग्जृम्भकदेवाः सिद्धार्थराज्ञः सदने स्था पयाञ्चक्रुः । तदीयं कोशमपि रजतैः स्वर्णैरत्नैराभरणैश्च दिधत् । एवं गण्यानि - फलादीनि धार्याणि कुक्कुमगुडशर्करादीनि मेयानि -तैलघृतलवणादीनि परिच्छेद्यानि - रत्नवलनादीनि चतुर्विधानि धनान्यपि तद्दिनादेव तद्गृहे किलैधन्त । यवाः १, गोधूमाः २. शालिः ३, व्रीहिः ४, षष्टिका ५, कोद्रवः ६, अणुका ( युगन्धरी ) ७, कङ्गुः ८, रालकः ९, तिलम् १०, मुद्गः १९ माषः १२, अतसी (अलसी ) १३, हरिमन्थकः ( चणकः ) १४, त्रिपुट: ( लांगः ) १५, निष्यावः ( वालः ) १६, शिलिन्दः १७, राजमाष: ( चवला ) १८, उच्छूः ( वरटी ) १९, मसूरः २०, तुवरी २१, कुलत्थः २२, धान्याकम् २३, कलापः ( वटाणा ) २४ इति चतुर्विंशतिजातीयानि धान्यानि च ववृधिरे । एवं सप्ताङ्गं राज्यम् जनपदाः, चतुरगसैन्यम् गजवाजिकर भादिवाहनानि, भाण्डागाराः, कोष्ठागाराः, नगराणि, अन्तःपुरं, प्रजाः, कीर्त्तयश्च गवा Jain Education International " " 5 PA For Private & Personal Use Only " www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy