________________
(८६)
श्रीकल्पसूत्रार्थप्रबोधिनी. न्द्रियाण्यपि सन्तीति तमप्राक्षम् । स च मां मुष्टिमदर्शमत्तया चाऽवगतं मया यत्सत्स्वपि तेषु निगृहीतानि तानि जात्वपि नैव प्रभवन्ति । इत्थं तत्वविचारे जाते स मामजयत्तमाम् । ततः पराजितो दक्षिण भट्टाचा: स्वदेशमयासीत् । ततो राजा गांगा तैलिकमपृच्छन-भोः ! कीदृशं वादश्चकर्थ, केन वा प्रश्नेन तमजैषीः १ । सोऽअल्पत्स्वामिन् ! तस्मिंस्तु दौर्जन्यमेव किलाऽऽसीत् , अल्पीयस्यपि निद्वत्ता नाऽऽसीत् । यतो मां प्रागेकाङ्गलिमदर्शयत्तेनाऽहमित्यवेदिपं तबैकमक्षि भक्ष्यामि । ततोऽहं यदि त्वमेका मे दृशं भक्ष्यसि, परं तब तु द्वयमपि तत्स्फोटयिष्याम ति समाधित्सुरजन्यो तादर्शयम् । ततो मां चपेटया सोऽसूचयत्-मुखे ते चपेटां दास्यामि । दुमते ! चपेटां दास्यसि चेदमुना वज्रमुष्टिना त्वां तथा हनिष्यामि यथा पातालविवरं प्रवेक्ष्यसीति सूचनाय मया मुष्टिरदर्शि । तैलिकोक्तं शृण्वन्तः सभ्या जहसुः । राजा तस्मै विविधवस्त्राभरणं प्रदाय विससर्ज ।
अथैतान् स्वप्नपाठकान् विविधसरससुस्वादुखाद्यपेयादिना सन्तl, वस्त्राभरणादिना सत्कृत्य पुष्पमाल्यादिना च समभ्यर्च्य भहाजीविकां प्रदाय व्यसृष्ट । ततो राजा सभां विसृज्य त्रिशलाराज्ञीमवादीत्प्रेयसि ! असुना महास्वप्नावलोकनेन नूनं चक्रवर्त्तिनं तीर्थकर्तारं वा पुत्रं प्रसविष्यसे । स्वप्नफलानीत्थं श्रुत्वा प्रमोदभरमानसा सिद्धार्थभूपत्यनुमता त्रिशला तस्मान्मणिरत्नमयाद् भद्रासनादुत्थाय मरालगत्या वजन्ती सती स्वप्रासादमागात् । २७ गर्भमाहात्म्यवर्णनमन्वर्थनामाभिलाषश्च
अथ यस्मिन् घने हरिणैगमैषिणा देवेन त्रिशलाया राड्या गर्भे संक्रामितो भगवान्महावीरस्तद्दिनादेव ग्रामाः-करदाः, आकराः-लोहताम्राद्युत्पत्तिस्थानानि, नगराणि-मुक्तकराणि, खेटानि-मृण्मयवप्रोपेतानि, कर्बटानि-गर्हितनगराणि, मडम्बानि-परितो योजनार्धाऽधिकाऽ. वस्थितग्रामाः, द्रोणमुखानि-जलस्थलमार्गद्वयोपेतानि, पत्तनानि-जलस्थलाऽऽभ्यन्तरमार्गाणि, आश्रमाः-तीर्थस्थानानि तापसस्थानानि वा, संवाहाः-यत्र कर्षका धान्यानि क्षेत्रेभ्य आनीयाऽऽनीय स्थापयन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org