________________
चतुर्थ व्याख्यानम् ।
(८५) रणायां तां पञ्चशतीं विदुषामाशु व्यजयत । सकलनिजविद्वन्मण्डले पराजिते महती चिन्तामापन्नो भोजराजः सभां विसृज्य बहिरुपयनक्रीडनाय चलन्मार्गे गांगातैलिको घाण्योपरि समासीनो वृषभं चालगन् यन्त्रानिर्गच्छतैलं पाणिभ्यामेव दूरवर्तिनि घटे निक्षिपन्नेकविन्दुमपि तदपातयनासीत् । इत्यद्भुतं शिलोक्य राजा 'अहो ! कियती चास्यकाक्षस्य शेमुषी वर्तत. किश्ती बा चातुरी गति ?, याभ्यामेकोऽपि विन्दुर्भूमौ न निपतति, बुद्धिरप्येतस्याऽपारद भविष्यति न तत्र सन्देहः । ' इति निर्धार्य तदैव तमाहूय श्राचचक्षे- अरे ! समागतेन भट्टाचार्येण साकं संबादं चिकीर्षसि ।' सोऽवक्-' स्वामिन् : तेन साध संवाद करणमाश्चर्यकरं न मन्य । यदि कुत्राप्यंशे तदीयां शक्तिमधिकां द्रक्ष्यामि, तदा लौकिक्या कलया तं जगजित्वरमपि जेष्याम्येव तत्र मा संशयीथाः । ' इत्थमेतद्वनमा प्रमोदभार राजा हुँ भट्टाचार्यमाकार्य न्यगादीत् ---भट्टाचाय ! भवता पराजितानामेतेषामध्यापकः सकलशालपारदृश्वा पण्डितराजो वर्तते, तेन सत्रा वादं विधेहि ?, तमिाँ जिते वो बिज्यो भविष्यति । भट्टोऽजन्पत्-करिष्यामि तेनापि सत्रा विवादश, समाह्वयतु शीघ्रं । तदा राजा स्व पण्डितानाहूय न्यादत् -- यूयं तत्र यात, शीघ्रं पण्डितशिरोमणि गुरुमत्राऽऽनयत । तेऽपि तत्र गत्वा वस्त्राभरणादिभिश्च पण्डितराजवेषं कृत्वा सुखासनोपरि निवेश्य मदोद्धरं बलीयांसं तं राजसभामानिन्धिरे । तागतमालोक्य राजादयः सकला अपि सदस्या अभ्युत्थानदानेन तं सत्कृतवन्तः । तस्य गुर्वादरं विलोकमानो दक्षिणभट्टाचार्यो मनसि दध्यो-... यदसो मदोद्धरः पुष्टाङ्गो बलीयाँश्वाऽस्ति । अहन्तु कृशोऽस्मि, विवादे पारं नाधिगमिष्यामि, अतोऽसौ तत्वमेव प्रष्टव्यः । इत्यवधार्य दक्षिणभट्ट एकामङ्गुली मुदस्थापयत । तदा तैलिको भट्टः क्रोधमुद्रां दर्शयन्नङ्गलि द्वयमुत्थापितवान् । तद्वि लोक्य मनसि चमत्कृति विदधद्दक्षिणभट्टः पञ्चाङ्गुलीरुन्निन्ये । ततस्तैलिको बद्धमुष्टिमदर्शयत् । दक्षिणभट्टः सभायामेव निजशिरःसृणि चिरधृतामपि मुक्तगवस्तत्कालभेवाऽधश्चक्रे, निजोदरे बहुकालिकप्रतिबद्धं पटमुदमोचयत. एवं निःश्रेणी कोदालकतृणपुलकप्रमुखैः सहाऽखवगर्वमुजहौ । सकलजनसमदं तं प्रमानाम, व्याजहार च-राजन् ! अत्याश्चर्यमभृत् , यन्मामद्यावधि कोऽपि नाऽजयत् , तमपि मामय ते महाविद्वाञ्जगदेकपण्डितो व्यजेष्ट । राजापाक्षीत-भवतस्तेन सह संवादो मनागपि नो जज्ञे, तर्हि कथङ्कारमसौ त्वामजै. पीत् १. मट्टो न्यगीत--ते भट्टः सकलशास्त्र तभूरिश्रमोऽद्वितीयस्तत्ववत्ता प्रतिभाति । मया जत्यामेकः शिव योपास्यो बरीवृत्त्यते सुधियामित्यतिगूढतचपृच्छयाऽङ्गुलिरेकोबीता । ततस्त्वदीयो भट्टाचार्योऽङ्गल्यौ मामदर्शयत्तेन मयाऽवेदि ---यदेकः शिव एव नास्ति, किन्तु शक्तिरपि प्रकृतिपदवाच्या द्वितीयाऽस्ति । ततोऽहं पञ्चाङ्गुलीदर्शनेन पञ्चे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org