________________
(८४)
श्रीकल्पसूत्रार्थप्रबोधिनी. जमाणश्च जनिष्यते ८, कुम्भनिरीक्षणात्समस्तसद्गुणगणारामविभूषितः सद्धर्मसौधोपरि कलशारोपणतुल्यो भविता ६, पद्मसरो दर्शनात् त्रिजगत्तापहारी, नरनारीजननयनसरोजवनविहारी, विधास्यन्ति चास्य क्रमयुगलविकचपद्मयोरधस्तात्कनककमलं त्रिदशाधीशाः १०, क्षीरसागरावलोकनादगाधहृदाऽऽसादितकैवल्यसमुज्ज्वलरत्नश्चतुर्दशराजलोकेषु प्रख्यातिमेष्यति ११, विमानदर्शनाद्वैमानिकानामपि देवानामर्चनीयो भविष्यति १२, रत्नराशिदर्शनाद्देवविरचितरत्नप्राकारमण्डितसमवसरणे समासीनो धर्मानुपदेक्ष्यति १३, निर्धूमाग्निविलोकनान्निर्मलकान्तिकः कनकमिवाऽग्निरात्मानममलं करिष्यति । विशोधयिष्यति भव्यजनमनांसि, धक्ष्यति च कर्मेन्धनानि १४, चतुर्दशस्वप्नविलोकनात्समुदि. तफलन्तु चतुर्दशरज्वात्मकलोकाऽअस्थायी भविष्यतीति विदाङ्करोतु । २६ गांगातलीकथानक, नैमित्तिकविसर्जनश्च --
इत्थं स्वप्नपाठकमुखारविन्दात्स्वप्नफलानि श्रुत्वा सिद्धार्थो राजा सन्तुष्य॒स्तानेवमुवाच-भोः स्वप्नपाठकाः ! भवदभिहितान्येतानि फलानि सकलानि मे गांगातैलिकवत्सत्यानि भविष्यन्त्येव । यथा
कश्चिदेको विद्वत्तमो महाराष्ट्रदेशीयः, प्रतिष्ठानपुरे मकलशास्त्र पारदृश्वनः समस्तभूमण्डलप्रसिद्धस्य कस्यचित्कोविदस्य पार्श्वे त्रिंशत्समापिः सर्वशास्त्राणि सम्यगत्यि तेषु चाऽजय्यां वादशक्तिमेत्याऽखर्वगर्वावलीढः कदाचिदियतीभिर्गुर्वाभिर्विद्याभिरुदरं मा शीयतामिति शङ्कया निजोदरं पटेन दृढं बबन्ध । उष्णीषोपरिष्टादशमविभः । सदसि प्रवर्त्तमाने विचारवाद नष्टवा व्योम्नि गच्छता विदुपामधः पातनाय निःश्रेणिकामेकां पार्थे स्थापितवान् । ये च विषदमाना मझीत्या पातालं प्रविशेयुस्तानपि गर्त खनित्वा निगृह्यामिति धिया कोद्दालमध्येकं पार्श्वे ररक्ष । विजितानां मुखे तृणन्यासाय तृणपुलकमपि शश्वदुवाह । एतानि भृत्यवाहयन् महताऽऽडम्बरेण जगद्विद्व जयविकीर्षया प्रस्थितः क्रमशो दाक्षिणात्यान् गुर्जरीयान् मरुधरीयान् विद्वत्तमान् विजित्य समेषां तेषां मुखे तृणं निधायः ऽखर्वगर्व विदधत्संलब्धसरस्वतीकण्ठाभरणाद्यनेकपदवीको मालवे राजधान्यामुज्जयिन्यां पुरा श्रुतपञ्चशतधीधनजनमण्डल्या सत्रा विवदिषां बिभ्रदाययो । ततः सकलविद्वजनविभूषितायां भोजराजसभायां प्रचलितायाश्च नानाशास्त्रीयविचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org