SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चतुर्थं व्याख्यानम् | ( ८३ ) हितं कुर्वाणा सप्तमे दिवसे मृत्वा देवलोकमाप्तवती । अतएव शुभस्वप्नं दृष्ट्वा गुरूणां विज्ञानामेव वाच्यम्. मूर्खस्तु जात्वपि नैव कथनीयः । २५ चतुर्दशस्वप्नफलकथनम्- " " राजन् ! अर्हति चक्रवर्त्तिनि वा गर्भेऽवतीर्णे सति तन्माता गजवृषभादिचतुर्दशमहास्वप्नान् प्रेक्षते । यस्याश्च गर्भे वासुदेवोऽ वतरति सा सप्तोत्तमस्वप्नानुदीक्षते । बलदेवे समवतीर्णे तन्माता तु तन्मध्ये चतुरः कानपि तान पश्यति । माण्डलिकराजमाता तु तन्मध्ये कमप्येकमेव स्वप्नमालोकते । त्रिशला महाराज्ञी प्रथमं चतुदन्तदन्तावलेपमपश्यत् तेन सार्धसप्तदिनाधिकन मास्यामतीतायां युष्मत्कुलोद्दीपकत्वाद्दीपकमिव. त्रिलोक्यामूर्धन्यत्वान्मुकुटमिव धर्मे निश्चलत्वादचलमिव लोकातीतसुषमाशालित्वातिलकमित्र, कुलाधारं वंशविस्तारकरं पटुतरहृषीकनिचयमविकलाङ्गपीयूषन यूखमिव कान्तं पुत्रं प्रविष्यते । स च लक्षणव्यञ्जनगुणोपपन्नो भविष्यति सेविष्यन्ते, चामुष्य चरणतामरसं चतुष्षष्टीन्द्रा राजानश्च । स्थापयिष्यति जगति दानशीलतपोभावलक्षणं चतुर्भाधर्मम् १, वृषभदर्शनात्स धान्यवीजमिवाऽमुष्मिन् भरतक्षेत्रे बोधिबीजं वप्स्यति २, सिंहदर्शनात्कामक्रोधादिमदमत्तमातङ्गविभज्यमानमिदं मिथ्याविजनश्वापदादिदुर्जीवान् विनिघ्नन् भव्यजनवनमविष्यति, अष्टमदाऽष्टकर्माणि च दलिष्यति, त्रिभुवनजनमा निताऽशेषाऽऽदेशश्च भविता ३, लक्ष्मीवीक्षणात्तैर्थङ्करीं श्रियमर्थात्साम्वत्सरिकं दानं ददन्निरतिचारां दीक्षाभवन् कैवल्यकमलां भोच्यते ४ माला युग्मदर्शनादयं त्रिभुवनजनशिरोधार्यो भविता । साधु श्रावकयोद्वैविध्यं धर्मं प्ररूपयिष्यति, मंस्यते चाऽमुष्य महीयसः शिशोराज्ञां सर्वे सुरासुरनरवराः ५, चन्द्रमसः प्रेक्षणात् त्रिलोक्या आह्लादकरः, सुजनकुवलयवनविबोधकरश्च भविता ६. सूर्याऽवलोकनात्सकलमही तलमिदं निजाऽसीममंहसा विद्योतयिता ७, ध्वजदर्शनात् त्रिलोक्यामेतस्यां सर्वतः समुन्नतो धर्मध्वजेन विभ्रा Jain Education International 9 · For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy