________________
(८२)
श्रीकल्पसूत्रार्थप्रबोधिनी. जन्मत एव जैनधर्मोपासकः सदाचाररक्त आसीत् । तथापि तदानी दुर्दशत्वात्क्षुत्परिपीडितः किमपि याचितुं नगरान्तः प्राविशत् । तत्र केनचिद्वणिजा महिष्यर्थ राधितमाषेभ्यः किञ्चित्तस्मै दत्तम् । तन्नीत्वा जलाशयतीरमागत्य दध्यौ-यद्यधुना कमपि सत्पात्रं लभेय तर्हि वरम् । तावदेकः साधुस्तत्रागात् । प्रदृष्टमनाः परया मक्त्या तस्मै तमाहारं सर्व प्रत्यलाभयत् । गते च तस्मिन् स्वं कृतकृत्यं मन्वानः सुष्वाप । स्वप्ने च सकलं शशिबिम्बमहमगिलमित्यरुणोदयवेलायामद्राक्षीत् । तस्यामेव वाटिकायां निवसतः कस्यचित्तापस स्यान्तेसदपि तमेव स्वप्नमवलोक्य प्रगे गुरुं पप्रच्छ-गुरुस्तस्फलमेश्मचकथत्-वत्स ! अद्य त्वमेतत्स्वप्नप्रभावात्तन्मण्डलमात्रमतिवृत्तां घृतपूरिता सगुडां रोटिकामेकं लप्स्यसे । स शिष्यस्तदिने भिक्षायां तामेव लेभे।
मूलदेवो ' यदसौ मठपतिर्मों भाति, अतएव दृष्टं महास्वप्नं न वाच्यः, वक्ष्यामि चेत्तन्मात्रमेव फलं निगदिष्यति । इति निश्चित्य नगरान्तर्महीयस एकस्य नैमित्तिकस्याऽग्रे फलपुष्पपाणिस्तस्फलनप्राचीत् । नैमित्तिकोऽजल्पत्--महाभा ! यदि मत्पुत्री परिणयेथास्तहि ते स्वप्नफलं बृयाम् । मूलदेवोऽवदत्-भवान्मे कुलशीलदेशादिक न विजानाति, तर्हि पुत्री कथं दित्सति ? । नैमित्तिकोऽवदह–अहं ते भूतं भविध्यच्च सर्व वेनि । इत्थमाभाष्य पुत्री विवाहविधिना प्रदाय स्वप्नफलमवादीत-- यदेतनगर्या राजाऽद्य दिवसात्सप्तमे दिवसे मरिष्यति, ततस्तद्राज्यमवाप्स्यसीति दृष्टस्वप्नस्य फलमवेहि । नैमित्तिकभापितं श्रद्दधत्तत्रैव तस्थिवान्मूलदेवः । सप्तमे दिवसे तन्नगरीयः क्षितिपतिरनपत्यो व्यपद्यत । तदा प्रधानादयः सर्वे विमर्शयामासुः- यत्सजिता गजतुरगादयो दिव्या यं स्थापयिष्यन्ति स एव राजा कर्त्तव्यः' इति निश्चित्य तानि दिव्यानि विदधिरे । ततस्ते सर्वान् विहाय तत्रागत्य प्रथमं स गजः मूलदेवं कलशजलेन स्नपयाञ्चकार, विततान च वृंहितम् । परिमाण्डत रगश्च द्वेषां व्यतानीत् । ततः शुएडादण्डेन गृहीत्वा गजः स्वपृष्ठे समारोप्य सं नगरान्तरानीतवान् । सर्वे लोका महामहेन नृपासने समतिष्ठिपन् ।
__ अथवा काचिद्वणि स्त्री स्वप्ने समुद्रं पपौ । प्रभाते च तत्फलं प्रष्टुं फलाक्षतादिपूर्णकरा गृहाच्चचाल । मार्गे च सख्या प्रत्याग्रहात्तत्स्वप्नं तामुवाच । तच्छ्रत्वा सख्यवदव-अयि ! इयन्तं सागरं पीत्वा तवोदरं नाऽस्फुटदिति महदाश्चर्यमजायत । इत्युपहसन्ती साऽन्यत्राऽऽगच्छत् । ततः सापि नैमित्तिकागारमागत्य स्वप्नफलमपृच्छत् । नैमित्तिकोऽवक्-त्वमेतदुत्तमं स्वप्नमन्यां कामप्यवादीः। अतः सत्पुत्रप्राप्तिसूचकोऽयं स्वप्नस्ते न फलिष्यति । मूर्खस्य यदुवदिय ततएवाद्यतनदिनात्सप्तमे दिवसे महदनिष्टं ते समुदेष्यति । अतस्त्वं याहि, गुरून देवांश्च स्मर । इति श्रुत्वा स्वसदनमागत्य साऽऽत्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org