SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ चतुर्थं व्याख्यानम् । ( ८१ ) ज्झित भवति । स्वर्णरत्नवज्रान्यतमानां राशी यः स्वं चटितं पश्यति स्वप्ने सोऽवश्यमधिगत सम्यक्त्वः सदासुखमयं मोक्षं याति । स्त्रियो वा पुरुषाः स्वप्ने क्षीरदधिघृतमधुकुंभान् स्पृशेयुरुत्पाटयेयुर्वा ते तत्कालमेव सम्यक्त्वमित्वा तस्मिन्नेव भवे मुच्यन्ते (मोक्ष यान्ति) । एवं लोहराशिं ताम्रराशि पुराशिं सीसकराशिं स्वेनोत्पाटितं स्पष्टं वा पश्यन्ति ते तत्का लमेव प्रतिबुद्धा मोक्षं यान्ति । ये शुभाशुभाऽऽत्मनः स्वप्नाः स्वस्मिन् प्रेक्ष्यन्ते तव स्वस्मै तत्फलं वितरन्ति परस्मिन्ना लोकितास्तु मनागपि स्वस्मिन् नैव फलन्ति । अशुभं स्वप्नमवलोक्य तच्छान्तये देवगुरुवन्दनपूजनादिकं विधातव्यम् । यतः - धर्मेण दुःस्वप्नोपि सुस्वप्नतामुपयाति ।' राजन् ! पुनरस्मच्छास्त्रे १ गन्धर्वः २ राक्षसः, ३ भूतः, ४ पिशाचः, ५ बुक्कसः, ६ महिषः, ७ अहिः, ८ वानरः, ९ कण्टकडुः, १० नदी, १९ खर्जूरः, १२ श्मशानः १३ उष्ट्रः १४ खरः, १५ मार्जारः, १६ श्वानः, १७ दौःस्थ्यम्, १८ सङ्गीतम् १९ धीजः, २० भस्मः, २१ अस्थि, २२ वमनम्, २३ तमः, २४ कुस्त्री, २५ चर्म, २६ रक्तः, २७ अश्म, २८ वामनः, २९ कलहः, ३० विविक्तदृष्टिः, ३१ जलशोषः ३२ भूकम्पः ३३ ग्रहयुद्धम्, ३४ निर्घातः, ३५ भङ्गः, ३६ भूमज्जनम्, ३७ तारापतनम् ३८ सूर्यचन्द्रस्फोटः, ३९ महावादुः, ४० महातापः ४१ विस्फोटकः, ४२ दुर्वाक्यमिति द्विचत्वारिंशदशुभाः १ अर्हन् २ बौद्धः, ३ कृष्णः, ४ शम्भुः, ५ ब्रह्मा, ६ स्कन्दः, ७ विनायकः, ८ लक्ष्मी:, ९ गौरी, १० नृपः, ११ हस्ती, १२ नन्दिनी, १३ वृषभः, १४ चन्द्रः, १५ विमानम्, १६ गृहम्, १७ वह्निः, १८ स्वर्गः १६ समुद्रः, २० सरोवरः २१ सिंहः २२ रत्नराशिः, २३ नगः, २४ ध्वजः, २५ कलशः, २६ पुरीषः, २७ मांसः, २८ मत्स्ययुग्मम्, २६ कल्पतरुः, ३० सूर्यश्चेति त्रिंशदुत्तमफलसूचकाः स्वप्नाः परिकीर्त्तिताः । 3 9 " इष्टं स्वप्नं विलोक्य मूर्खस्य नैव वक्तव्यम् । यथा --- कस्यचिद्राज्ञो मूलदेवनामा सूनुरासीत् । स च दान व्यसनात्पित्रा निष्काशित इतस्ततः पर्यटनेकस्मिन्नगर आयातः । ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy