________________
(८०)
श्रीकल्पसूत्रार्थप्रबोधिनी. दृष्टे भूरिधननाशो भवति, क्लेशादिदर्शने तु कष्टमाप्नोति । गोत्रस्त्रीणामपहारादिविलोकने बन्धूनां बधबन्धौ भवतः । यस्य दक्षिणं भुजं सितसर्पो दशति स्वप्ने. स पञ्चरात्रेण कनकसहस्त्रं लभते । यः स्वप्ने निजशय्याया उपानहोर्वा हरणं पश्यति, तस्य पत्नी म्रियते शरीरे, गाढपीडा च । यः स्वप्ने मानवशिरो भुङ्क्ते, स राज्यमिति । तच्चरणभोजनदर्शनेन दीनारसहस्र, भुजखादनदर्शने तु दीनारसहस्रार्धमुपैति । यो गोवृषभगजप्रासादगिरिशिखरोपरि चटति, तस्य महिमा वर्द्धते । यः शरीरं विष्ठाविलिप्तं पश्यति, तस्य रोगाः क्षयन्ति । यः स्वप्ने रोदिति, स हर्षवार्ता शृणोति । यः स्वप्ने राजानं, कुञ्जरं, हयं, स्वर्ण, वृषभं, गां वा पश्यति, तस्य कुलवृद्धिर्भवति । दीपं, मांसं, फलं, कन्यां, प , छत्रं, ध्वजं वा स्वप्नेऽवलोकते स विजयी जायते । यः स्वेष्टदेवप्रतिमां विलोकते, तस्यायुः कीर्तिधनानि च वर्धन्ते। यो द्वारपरिघशयनीयपादुकानिकेतनानां भञ्जनं वीक्षते, तस्य स्त्री म्रियते । पद्माकर-रत्नाकरपरिपूर्णाऽऽपगां सुहृदां वा मृत्यु पश्यति, स विपुलं वित्तमाशु लभते । अत्युष्णं सगोमयमनच्छमौषधमिश्रं वारि स्वप्ने पीत्वा किलातिसाररोगेण मृत्युमधिगच्छति । देवप्रतिमाया अभ्यर्चनं स्नपनमुपहारं यात्रां वा स्वप्ने कुर्वाणो नरः सर्वतः समेधते । यस्य स्वप्ने हृदि सरसि कमलानि प्रादुःषन्ति, स शीघ्रं गलितकुष्टप्रगष्टगात्रो यमसदनातिथ्यमाप्नोति । यः स्वप्ने प्राज्यमाज्यं विन्दति, स कीर्ति लभते । यः क्षीरानेन प्राज्यमाज्यमभ्यवहरते, तस्य शुभं विजायते । यः स्वप्ने हसति तस्य शोकः, यो नृत्यति, स बधबन्धने लभते । यः पठति तस्य कलहो जायते । गोवाजि-गज-राज-देवान् विहाय सकलं कृष्णदर्शनमप्रशस्तम, तूल-भस्माऽस्थि-लवण-तकादीन् हित्वा समस्तं शुक्लदर्शनं प्रशस्तश्च भवति । शुक्लाम्बरां शुभ्रामरणां श्रीखण्डपङ्कविलिप्तगात्रां नारी स्वप्ने भुञ्जानः धनानि विन्दते । रक्तवसनां रक्ताऽनुलेपनविलिप्तां कृष्णाम्बरां कृष्णगन्धलिप्तां वा नारी दृष्ट्वा भुक्त्वा वा नरः शोणितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org