SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्थं व्याख्यानम् । ( ७६ ) मुधा जायते, उत्तरस्त्रिधा फलं वितरति । तत्रापि रजन्याः प्रथमे यामेsaलोकितः स्वप्नो वर्षात्, द्वितीये यामे षण्मासैस्तृतीये यामे त्रिभि र्मासैश्चतुर्थे यामे मासेन फलति । अरुणोदयवेलायामुदीक्षितः स्वप्नो दशभिर्दिनैः फलति, सूर्योदयकालिकस्तु तत्कालमेव फलति । यस्य खलु दैनिकाऽधिव्याधिभ्यां स्वप्नः शुभोऽशुभो वा जायते स निरर्थको भवति । सति वायुविकारेस्वप्ने तरुगिरिशिखराऽऽरोहणं, गमनागमनञ्च प्रेक्षन्ते, पिप्रकोपाच्च स्वर्णरत्नसूर्याऽग्निप्रमुखानवलोकन्ते, श्लेष्माऽऽधिक्ये - तुरगतारकसितपक्षान् पश्यन्ति, नदीतटाकसरःसमुद्रादींस्तरन्तीत्यादयो वृथा जायन्ते । मलमूत्रयोर्वाधयापि यः स्वप्नः समायाति, तस्यापि फलं नैव जायते । S. योहि सदैव धर्मतत्परो भवति, समधातुकः स्थिरचित्तो वशीकृतेन्द्रियमः कृपालुर्भवति, तद्दृष्ट एव खप्नः शुभाशुभफलं दि शति । अनिष्टं स्वप्नं गुर्वादिकं न श्रावयेयुः किन्वन्यमेव । इष्टं स्वप्नमालोक्य पुनर्नो शयीत, किन्तु जिनगुरुस्तवनादिकं विदधता जागरितव्यमेव, पुनः स्वापे स न फलति, अनिष्टदर्शने तु स्वप्यादेव । यो हि प्रागशुभं प्रेक्ष्य पुनः शुभं, शुभदर्शनानन्तरं वाऽशुभस्वप्नमुदक्षते, तस्मै पश्च/दालोकितः स्वप्न एव फलं ददते, न प्राग् दृष्टः । यः स्वप्ने नर- मृगपति- तुरङ्ग-मातङ्ग-वृषभ- सिंहिकायुक्तरथमारुह्य गच्छति, स राजा जायते । हय - गज-याना SSसन - सदन - वसनादीनामपहारं विलोकते, तस्य राजभयं बन्धुविरोधोऽर्थहानिश्च जायते । यः सकलं सूर्याचन्द्रमसोर्बिम्बं प्रसति, स निर्धनोऽपि ससुवर्णां ससागरां कृत्स्नां महीं भुङ्क्ते । प्रहरण-भूषण-मणि-मौक्तिककनक- रजत - कुप्यादीनामपहारावलोकने धनमानहानिः प्राणान्तकष्टञ्च जायते । यः श्वेतदन्तिनमारुह्य नदीतीरे शाल्योदनमश्नाति, स जात्या हीनोऽपि धनरहितोऽपि समस्तां महीं भुङ्क्ते । भार्याया हरणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy