SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ (७८) श्रीकल्पसूत्रार्थप्रबोधिनी. सङ्ग्रामे विजयश्रियं वितनुतां सम्यक्त्वचिन्तामणि, राज्यञ्चापि विवर्द्धयन्नरपते ! दीर्घायुरारोग्यताम् ।। इति श्रीवीरजिनशासनशृङ्गारहार-सुविहितसूरिपुरन्दरनन्दनवनाऽऽराम विहारि-शिथिलाऽऽचारप्रचारतमोहारिजैनाचार्य-भट्टारक-श्रीमद्विजय राजेन्द्रसूरीश्वर-सङ्कलितायां श्रीकल्पसूत्रार्थप्रबोधिनीनाम्न्यां टीकायां तृतीयं व्याख्यानं समाप्तम् । अथ चतुर्थ व्याख्यानं प्रारभ्यते । -*२४ शुभाऽशुभस्वप्नफलदर्शनम् , मूलदेवाऽऽख्यानश्च___ अथ ते स्वप्नपाठकाः सादरं नरपालेनाऽभिवन्दिताः पुष्पमालारत्नजटितस्वर्णमाल्यादिदानेनाभ्यर्चिताः, वचसा च सन्नुताः प्रान्यस्ताऽष्टभद्रासनेषु निषेदुः। यदसौ राजा सम्यक्त्ववानासीत्तर्हि मिथ्याविनस्तान् कथमवन्दत ?, तत्समाधातुमाह-सम्यक्त्ववन्तः खलु धर्मधिया नाऽन्यं वन्दीरन् । व्यवहारदृशा विनयदर्शनाय मिथ्याविनोऽपि प्रणमन्त्येव, न तत्र कापि क्षतिः । तदनु सा त्रिशला पूगीफलश्रीफलरजतदूर्वाक्षतादिपरिपूर्णाऽञ्जलिर्जवनिकान्तरिता तस्थुषी । ततः सिद्धार्थो राजा फलपुष्पादिना पूर्णपाणिविनीतः सन्नैमित्तिकाँस्तानेवमपृच्छत्-अस्यां रजन्यां त्रिशलाराज्ञी स्तोकं निद्राणा सती प्रागुक्ताँश्चतुर्दश गजवृषभादिमहास्वप्नानुदैक्षिष्ट, तत्फलं कीदृशं भवितेति यूयं विचार्य ब्रूत ? । तेऽपि श्रुत्वा परस्परं सम्यग् विचार्य तन्मध्यादेकस्तत्फलानि चैवमाख्यातुमारभत-राजन् ! अस्मच्छास्त्रे-अनुभूतः १, श्रुतः २, दृष्टः ३, प्राकृतिकः ४, प्रकृतिविकारजः ५, चिन्ताप्रभवः ६, देवताप्रसादजः ७, धर्मकर्मप्रभावजः ८, पा. पोद्रेकसमुत्थश्च ६, इति नवधा स्वप्नो वर्त्तते। तत्राऽऽद्यः षोढा दृष्टः स्वप्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy