________________
तृतीयं ब्याख्यानम् ।
(७७) स्वामिन् ! एते सुभटा यद्यपि सुभगाः सन्ति, तदपि नायकविहीनतयाऽसम्मता एव लक्ष्यन्ते । अतः परीक्ष्य सर्वान् स्थापयतु । येनाऽग्रे कापि हानिने प्रादुःष्यात् । मन्त्रि. वाक्यं राज्ञाप्यभानि, सुखेन विधीयतामेतेषां किमपि परीक्षणमित्यभ्यधाच्च । ततस्तान् कस्मिंश्चिदेकस्मिन् योग्याऽऽवासे स प्रधान उदतीतरत् । रात्रों च शयितुमेकं मञ्चकमेकमास्तरण मेकचोपधानं सजलमेकं घटश्च प्राहिणोत् । ततः सकलजनपर्याप्तभोज्यसामग्री च प्रहिता । ते कृताऽशनाः सर्वे सुभटाः शयनवेलायां परस्परं कलहं विदधिरे। तत्रैकोऽवदत्-यन्मे पितामहो महीयानासीत् । अहमपि मुख्यो वर्तेऽतोऽहमत्र मञ्चके शयिष्ये, नेतरः। द्वितीयोऽवदत्-पुरैकदा वने केसरी ननाद, तदारावश्रुत्या गृहे तिष्ठतो मत्पितुः सप्ताहं तीव्रतरज्वरदाह आविरासीत्, अतः सवेतः श्रेष्ठतरोऽहमेव । तृतीयोऽवदत् -- यन्मे बलीयानग्रजन्मा सिक्तपर्पटानां शतमेकेनैव पार्णिघातेन बमञ्ज, अतो. ऽहं सर्वश्रेष्ठः । चतुर्थोऽवदत्-मन्मातुल एकमा जिगाय, अतोऽहमहामि नाऽन्ये । पञ्चमो न्यगदत्---मन्मातुल एकदा सप्तसेटकमितं कृशरं ( खीचडी) चखाद तेन मय्येव गौरवं वर्त्ति । पष्ठोऽवक् -- अहन्तु सप्तभाण्डप्रमिततक्रमेकश्वामेनैव पिबामि । सप्तमोऽवदत्---प्रत्यहमहं समन्येव हदे । अष्टमोऽवदत्-ग्रहं सप्ताहपर्यन्तं स्वपिम्येव । नवमो जजम्प-अहन्तु माजारतोऽपि बिभेमि, कुक्कुरारवं श्रुत्वा च हदे। इत्थं शयनाय कलहायमानानां तेषामर्धरात्रो व्यतीयाय । तेष्वेको वृद्धो जजल्प -- मोः ! मद्विमर्श शृणुत, कलहं माकुरुत, एतन्मञ्चकं मध्ये क्षिपत, तत्परितश्च सर्वे शेरतामिति सर्वैरमानि । जाते च प्रभाते छन्नतया तत्र स्थिता राजपुरुषाः सर्वे नैशिकं तेषां व्यतिकरं राजानं व्यजिज्ञपन् । ततः दिलिपतिस्तानशेषानयोग्यान् मत्वा भृशं निर्भर्त्य विससृजे ।
अत एकं मुख्यमग्रेसरं कृत्वा बाह्योपस्थानशालां प्रविश्य फलपुष्पादिभृताञ्जलयः शुभाशीर्भिर्नर्भी राजानं विवर्द्धयामासुः । तथाहि
नित्यं मङ्गलमातनोतु सदने वामेयतीर्थङ्करः, ___ शक्रस्येव समृद्धितामिह समान् पूर्याच्च कामानयम् ।
६ अयं वामेयतीर्थङ्करः श्रीपार्श्वनाथप्रभुस्ते सदने गृहे नित्यं मङ्गलमातनोतु विस्तृणोतु, इह भवे शक्रस्येव तत्तुल्यां समृद्धिताम् , ऐश्वर्यञ्च विस्तारयतु | च पुनः 'समान '-सर्वान् कामान्मनोरथास्ते पूर्यात्-पूरयतु, सङ्ग्रामे शक्रस्येव विजयश्रियं वितनुताम् , विस्तारयतु । किकुर्वन् ? चिन्तामणितुल्यं सम्यक्त्वं राज्यञ्च पुनर्दीर्घमायुरारोग्यतां वर्धयन् सन्नित्यर्थः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org