________________
(७६)
श्रीकल्पसूत्रार्थप्रबोधिनी. सज्जितमतिरम्यं भद्रासनं त्रिशलाया उपवेशनाय स्थापितम् । तदनु कौटुम्बिकपुरुषानेवमादिदेश-भोः सेवकाः ! अष्टाङ्गनिमित्तशास्त्रविदुषः स्वप्नलक्षणपाठकान् द्रागत्राऽऽनयत । तत्राऽष्टाङ्गानीमानि-अङ्ग१ २स्वर३भौम४व्यञ्जन लक्षणोत्पातान्तरिक्षाणीति ।
ततस्ते कौटुम्बिकपुरुषास्तत्र गत्वा तानूचिरे-भोः स्वप्नपाठकाः ! इदानीमेव राजा युष्मान् आकारयति । तच्छ्रुत्वा तेऽपि प्रसीदन्तः स्नातानुलिप्तगात्राः, कृतकौतुकमङ्गलमयदधिदुर्वाक्षतादिदुःस्वप्नप्रायश्चिताः, परिहितप्रावेशिकसमुज्ज्वलमङ्गलसूचकप्रवरकौशेयवस्त्राः, शिरोधृतगौरसर्षपदूर्वाक्षताः, सकलनिमित्तशास्त्रचुञ्चवः, स्वप्नपाठकाः स्वसदनानिर्गत्य सिद्धार्थक्षितिपतेर्भवनावतंसकोपस्थानशालाद्वारोपरि समाजग्मुः। तत्र मिलितास्ते सर्वे मिथो विमृशन्ति" सर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः।
सर्वे महत्वमिच्छन्ति, तेऽवसीदन्ति वृन्दवत् ॥ १॥"
तथाहि-एका सुभटानां पञ्चशती, यतस्ततस्त्याऽहमहमिका मतिं जुषमाणा, जीविकानिमित्तं बभ्राम । अनायकत्वात्कापि राजधान्यां जीविका नाऽऽप । इत्थं देशादेकस्मादपरस्मिन् देशे भ्रामन्ती कस्यचिन्महाराजस्य समीपमायाता । राजापि तत्पार्श्वे शुभतुरगशस्त्रवस्त्रसुरूपत्वादिविलोक्य सत्कृत्य च पप्रच्छ-यूयं के, कुतश्चाऽऽगम्यते, कश्च वो विद्यते गुणः १, तेऽजल्पन्-राजन् ! वयं वैदेशिकास्ते महतीं गुणज्ञतामाकण्ये त्वां सेवितुमिहाऽऽगमाम । तच्छ्रुत्वा नृपादयः सर्वे सभ्या भृशमतुष्यन् । राजा प्रधानमेवमुवाच-यदेते सत्कुलजा विक्रमिणश्च भासन्तेऽमी सङ्घामाङ्गणात्कदाचिदपि नो पलायिष्यन्ते, अत एते योग्यवेतनप्रदानेन निजसैन्यदले स्थाप्यन्ताम् । प्रधानेनाऽमाणि
१ पुरुषाणां दक्षिणाङ्गे योषितां वामाङ्गे स्पन्दनं श्रेयस्करमित्यादिफलसूचकमङ्गविद्या, उत्तममध्यमाऽधमस्वप्नविचारणा स्वप्नविद्या, दुर्गाशृगालादीनां स्वरपरिज्ञानं स्वरविद्या, भूकम्पादिना यच्छुभाऽशुभविज्ञानं तद्भौमविद्या, मषतिजकादिना शुभाऽशुभज्ञानं व्यञ्जनविद्या, करचरणरेखादिविज्ञानं लक्षणविद्या, उल्कापातादिना शुभाऽशुभफलज्ञानमुत्पातविद्या, खेटानामुदयास्तादिपरिज्ञानं चान्तरिक्षविद्या न्यगादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org