________________
तृतीयं व्याख्यानम् |
(७५) कतिचिद्दिनानि गमय । यदा ते निजनामाङ्कितमङ्गुलीयकं प्रहिणुयाम्, तदा त्वयात्रा ssगन्तव्यम् । इतरेषां केषाञ्चिदपि वचनादिना नैवाऽऽगन्तव्यम् । सापि तादृशे नृपादेशे जाते तत्कालमेव पितुरालयं चचाल । तत्पश्चाद्राजा सन्धिपालमाकार्य समादिशत्-भद्य मेरा कुपिता पितुर्गेहमयासीदतस्तत्र याहि, तूर्ण तामत्राऽऽनय । ततः सन्धिपालस्तीर्थवासिवेषेण तत्र नगरे समागत्य क्वचिदेकत्र तस्थौ । तद् बुद्ध्वा समाहूय राइया पृष्टः -- त्वमीदृग्वेषधारी कथमभूः १, तेनोक्तम्- स्वामिनि ! अहं खलु तीर्थवासी बभूवान् । सांसारिके कृत्ये न निपतामि, केवलं धर्मध्यानादिनैव समयं गमयामि । राज्ञी जगाद - भोः ! अमुना कृत्येन नूनं निजं जनुः सफलमकृथास्तथापि राज्ञः कुशलं नव्यवार्त्ताश्च कथय । शिरो धुनानः सोऽवकू - स्वामिनि ! अन्या कापि नव्यवार्त्ता नास्ति, किन्तु पुनरुद्वाचिक राजा काञ्चिदही रूपलावण्यवतीं युवतीं राजकुमारमन्विष्य लग्नदिनं निश्चिकाय । तदाकर्ण्य समुद्विग्नमना राज्ञी तदैव पितृसदनादात्मसदनमागतवती । तामागर्ता विच्छायवदनामालोक्य राजाऽप्राचीत् - प्रिये ! अनाहूता कथमागाः ?, साऽऽख्यत्— माम्प्रतार्य काञ्चिदन्यां मत्तोऽधिकां प्रेयसीमकरोस्तस्यामनुरक्तस्त्वं मां कथमाकारयेथाः । । एवं तयोपालब्धः चितीशस्तदैव तं सन्धिपालमाकार्य तन्मुखेन तदीयां भ्रान्ति भङ्क्त्वा राज्ञीमनुनीय तं सन्धिपालं विविधवस्त्राभरणादिना सत्कृतवान् ।
२३ श्रासनव्यवस्था, नैमित्तिकाह्नानम्, तदागमनमनायकसुभटकथानकश्च -
अथ धवलतरवारिवाहपटलविनिर्गतस्तारागणमध्यचारी पीयूषमयूख इव शोशुभ्यमानः परैरजय्यत्वात्समस्तारातिदलदन्तिकुम्भभेदित्वाच्च नरसिंहो नरपतिः सुसज्जितां सभामागत्य सिंहासनोपरि प्राङ्मुखः समुपाविशत् । तत्र स्वस्मादेशान्यां दिशि शुभ्राम्बराऽऽवृतानि कमनीयतमान्यष्टभद्रासनानि, शुभ्रवसनापिहितसितसर्षपान्, कुङ्कुमम्, सितदर्भांश्च मङ्गलार्थं स्थापयित्वा स्वासनान्नातिदूरे नातिसमीपे सुस्पशम्, महामनोहरां, नानाविधाऽमूल्य मणिरत्नप्रचयविभूषिताम् ईहा. मृगवृषभतुरगनरकुञ्जरमकर किन्नरविहगोरग रुरुशरभाऽष्टापद महाकायानेकवन्यच मर्यादिचम्पककेतकपद्मलतादीनां चित्रैः शोभमानाम् विविवजातीयविमलमणिगण सद्रत्नखचितामेवंभूतां जवनिकामबन्धयत् । धृतकमनीयाऽऽस्तरकमसूरकम्, तदुपर्याच्छादित श्वेतकौशेयवत्रम्, सु
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org