________________
( ७४ )
२२ सन्धिपालपरीक्षा
तत्र राष्ट्रीय सीमासन्धौ यदाऽन्येन राज्ञा सह विवाद उपतिष्ठेत्तदा यः सन्धिमुद्घाट्य विवादं निवारयेत्स सन्धिपाल उच्यते । तथाहि — कौशाम्ब्यां नगर्यां जितशराजो राज्यं कुरुते, तस्य च प्रधान - पुरोहित-सेनापति - कोष्ठपाल - सन्धिपालादयः सर्वे कार्यकर्त्तारः स्वीयस्वीयाधिकारे सावधाना वर्त्तन्ते । श्रथैकदा कश्चिद्राजानमेवमवोचतस्वामिन् ! सर्वे राजकीयाः स्वं स्वं कार्य विदधते, यस्ते सन्धिपालः स तु केवलं वेतनपीन एवास्ति, कार्य किमपि नो करोति । राजा तच्छ्रुत्वा सन्धिपालमब्रवीत् किं मोः ! वेतनमेव केवलमादत्से १ । सोऽवक् - नाथ ! अहं तां कलां वेद्मि, यया द्वेष्टारमपि प्रेयांसं विदध्याम्, गाढस्नेहिनश्च विपक्षतां नयानि, अन्यान्यपि बुद्धिगम्यानि परैरंगम्यानि कार्याणि सुखेन कर्तुमर्झामि । ततो राजा परीक्षायै कुत्रचित्पात्रे भस्म चित्रा स्यूत्वा च वस्त्रावृतं तत्पात्रं सन्धिपालाय दत्वा जगाद -- भोः ! अरिमर्दनो राजा मम प्रतिकूलो भृशं द्वेष्टि, अतस्त्वं तत्र याहि, तस्मा इदं देहि, मैत्रीं च सम्पादय, कृते चास्मिन् सत्यं मंस्ये । सन्धिपालोऽपि भूपादेशाचतश्चलित्वा कियद्भिर्दिवसैस्तत्रागत्य नृपाग्रे तदुपहृत्य राजानं व्याहर्तुमारभत -- राजन् ! अस्माकं स्वामी सादरं तुभ्यमेतदुपजहार, कुशलोदन्तश्च पप्रच्छ । तत्पात्रं लात्वा ग्रन्थिमुन्मुच्य स्वर्णपात्रे क्षिप्तं भस्माऽपश्यत् । तदालोक्य प्रधानोऽवदत् - स्वामिन् ! शत्रुणा प्रेषितमेतद्विलिप्य योगी भव । राजा भृशं चुक्रोध । तत्रावसरे सन्धिपालोऽजल्पत् - राजन् ! किमेवं विशङ्कसे ?, अमुष्मिन्महान् गुणो वर्वर्त्ति । नृपोऽवदत्- कोऽस्ति गुणः ?, सोडवक् - श्रूयताम्, मदीयो राजा महता व्ययेन चिरेणैकं यज्ञं कृतवान् तस्मिँश्च निर्विघ्नेन परिपूर्णतां याते सर्वेभ्यः सुदृद्भ्यो नरपतिभ्यो वितरन्नेतद्भस्म हितधिया तवापि तिलकार्थं प्राहिणोत् । एतस्मानूनं प्रजावृद्धिः श्रियोवृद्धिरायुषो वृद्धि सञ्जायते । एतन्निशम्य राजा भृशं तुतोष, मनसि दध्यौ च- - अहो मया पुरा यदशुभं चिन्तितं तत्तु महानर्थकारि । यश्चाहं द्वेष्टारमवेदिषम्, सोऽपि साम्प्रतमेतद पूर्व लाभ कारिभूति प्रदानेन हितैषी सखैव जज्ञे । इत्थं तदुक्तं तथ्यं मन्वानस्तेन सत्रा मैत्रीं भावयन् सन्धिपालं सत्कृतवान् । मासमेकं सादरमशनपानयानादिना सत्कुर्वन्, बहुगजतुरगवसनाभरणादिकं प्रदाय तं सन्धिपालं विससर्ज । अभ्यधाच्च - भोः ! अद्याऽऽरम्य यावज्जीवं तव राज्ञा सार्धं महीयसी प्रीतिर्मे जातेति स्वनृपाय स्वया वक्तव्यम्, इति सन्दिश्य स्वहस्तलिखितं पत्रं ददौ । सर्वमेतलात्वाऽचिरादेव कौशाम्ब्यामागत्यच भूपाग्रे तत्प्रदत्तं पारितोषिकं निधाय यथाजात वृत्तं कथितवान् । तच्छ्रुत्वा नृपादयः सर्वे सभ्यास्तं भृशं प्रशशंसुः । पुनरेकदा चोणीपतिस्तत्परीचणकृते स्वराज्ञीमादिदेश - राज्ञि ! त्वमिदानीं पित्रालयं व्रज, तत्रैव
I
श्रीकल्पसूत्रार्थप्रबोधिनी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org