________________
तृतीयं व्याख्यानम् ।
( ७३ )
तरपाणिपादैरभ्यङ्गाऽभिज्ञैरोिगतज्ञैश्चतुरैरतिबलिष्ठैरनेकैः कोविद सेवकैः सुचिरं सम्मर्दयामास । कृततैलाभ्यङ्गः क्षोणीपतिस्ततो निर्गत्य मुक्ताजालाकुलामभिरामां, विचित्रोज्ज्वलनानाजातीयमणिरत्नजटितभूभागां, विविधविचित्रचित्रचित्रितां, स्नानशालां प्राविशत् । तत्रातिसुन्दरे नानाविधमणिरत्नमण्डित कनकमयस्नानपीठोपरि निषण्णः, श्रीखण्डादिरससंपृक्तैः कुसुमपरागसुरभीकृतैः सुनिर्मलैरुष्णोदकैः स्नपितः, सुवासितेन मृदुवसनेन पुञ्छितगात्रः, पृथ्वीपतिरतिसूक्ष्मं दूष्यरत्नं शुभ्रतरमहतं वसनं पर्यधत्त । सौरभ्यमय गोशीर्ष चन्दनेनानुलिप्तगात्रः, कुङ्कमादिशो - भाकारिमण्डनं सुरभिसुमविरचितामामोदभरां मालाञ्च परिधाय मणिरत्नखचितमुक्ताहारकेयूरयैत्रेयकादिविविधमण्डनमण्डितगात्रः स करागुलीषु महाईसद्रत्नजटिता मुद्रिताः, कटौ शृङ्खलां बिभरामास । ततो मण्डितसीमन्तो मणिरत्नसमुज्ज्वलकुण्डलयुगलबहुशोभितशारदपूर्णचन्द्रवदनः, भानुसमानभासुरनुकुटप्रदीप्तशिरोविन्यस्तभासुरविविधहारहाविक्षाः कृतद्रष्टृ जनप्रमोदभरः, ऊर्मिका कृतपीताङ्गलिको महार्हमणिरनसमुज्ज्वलभुजबन्धस्तब्धभुजः, अत्यायतप्रलम्बमानमहापटविहितोत्त
रासङ्गो नानाजातीयमणिरत्नप्रकरविभासितचारुकारुविरचित सुश्लिष्टवि शिष्टवीरवलयं बिभ्रत् । इत्थं धृतसकलनृपार्हवराऽऽभरणवसनो नरनाथः कल्पतरुरिव शोशुभीतितमाम् । एवं परमशोभां दधानः, पुरस्कृतजयजयारावोऽनेकगणनायक - दण्डपाल - तन्त्रपाल - स्वराष्ट्रचिन्तकर्माण्डलिकनरपालैर्युवराजैस्तलवरैर्माऽम्बिकैः, कौटुम्बिकैः, सचिवैर्महामात्यैर्गणकैदवारिकैः, पीठमर्द के वयस्यैर्नागरैर्ने गमिकैः सेनाधीशैः श्रेष्ठिजनैः, सार्थवाहैर्दूतैरितरैरपि सन्धिपालादिभिः परिवृतो नरनाथो मञ्जन
"
गृहान्निरगात् ।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org