________________
( ७२ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
विपुला तुलबलवाहनो बहुगजतुरगरथपत्तिप्रतिपालको राजराजेश्वरो भविता । इत्थमुदारेदृशमहाफलदायिस्वप्नान् दद्रष्ट, अतस्त्वमवश्यमीदृशफलमधिगमिष्यसीति त्रिवारं राजा तां त्रिशलां पुनः पुनः प्रशंसन्नुवाच । तच्छ्रुत्वा भृशं प्रसीदन्ती सा पतिभाषितमशेषं प्रमण्वती विहिताञ्जलिः पुनरूचे - स्वामिन् ! यथा भणसि तथैवास्त्विति जल्पन्ती मन्दं मन्दं व्रजन्ती प्रमोदमेदुरासती स्वस्थानमियाय । तत्र चै दध्यौयदहमीदृशान् सुस्वप्नानालोक्य पुनरधुना स्वप्स्यामि, तर्हि कदाचिदशुभे स्वप्नेऽलोकिते प्रागालोकितस्य साधीयः फलं नो स्यात्, अतो मया देवगुरूनेव स्मरन्त्या जागरितव्यमिति निर्धार्य तथैवाऽकरोत् । २१ सिद्धार्थस्य सभामण्डापन- स्वानकरण- भूषवभार व्यव
जाते च प्रभाते सिद्धार्थो राजा कौटुम्बिकपुरुषमाकार्य समादिशत् - अद्य महोत्सवदिने बाह्यामुपस्थानशालां ( कचेरी) सम्मा छगणादिना विलिप्य शीघ्रमेव तां बन्धोदकेन सिक्तां विधत्त, दशाङ्गधूपैर्धूपयत, अन्यैरपि सुगन्धिद्रव्यरामोदयत, प्रतिस्थानं सुरभिकुसुममालाः पञ्चवर्णा बध्नीत, नानावर्णानि नानाजातीयानि च कुसुमानि परिस्फुटानि सौरभ्यभराणि स्थले स्थले क्षिपत । इत्थमादिष्टः सोऽनुचरस्तत्कालमेव भूपादेशेन तां तथा सम्पादितवान् । तदनु मित्रा5भ्युदयेन कमलवने विकश्वरतामुपनीते, गतवति ग्लावि तद्वियोगात्कैरवकुले मुखमुद्रणामुपनीते, रक्ताऽशोक- पलाश- बन्धूक- सिन्दूरपूरगुआर्धा ऽरुणविग्रहे, सहस्रांशौ समुदिते, विकसिते च इदतटाकादिस्थानिककमलाकरे, प्रणष्टे च तमिस्रनिचये कुङ्कुमेनेव बालारुणैः पिञ्जरी - कृताऽशेषलोके सिद्धार्थक्षितिपतिः शय्यां विहाय पादपीठोपरि न्यस्तपादो नीचैरवतीर्य परिश्रमशालामागत्य नानाविधां व्यायामकलामभ्य-स्य बलवीर्यवर्धनमायुरारोग्यकरं जाटराग्न्युत्तेजकं, कामोद्दीपकं, शतपाकसहस्रपाकादिकं, नानौषधिमिश्रितं सुगन्धिभरं यत्तैलं तेन मृदु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org