________________
तृतीयं व्याख्यानम् ।
२० त्रिशलांप्रति राज्ञः स्वप्नफलकथनम्
भगवति श्रीमहावीरे गर्भेऽवतीर्णे चतुर्दशैतान् महाखप्नानुदीक्ष्य मेघावलोकनाऽतिद्दृष्ट बालकदम्बकल्पसूल्लसिताऽशेषतनुरुहा, यथादृष्टस्वप्नान्मनसि संस्मरन्ती, हर्षाऽतिशयात्फुल्लेन्दीवरदलायताक्षी, शय्यां विसृज्य मानसिककायिकवाञ्चल्यविमुक्ता, अधिमार्गमस्खलन्ती, राजहंसीव गच्छन्ती, त्रिशला राज्ञी सिद्धार्थमुपान्तिकमागात्, तत्राऽऽगता च मधुपाकोपमया सरसया गिरा भर्त्तारं जागरयाञ्चकार । प्रतिबुद्धे च राजनि तदाऽऽज्ञया नानाजातीय सद्रत्नजटिते मृदुलाऽऽस्तरणसज्जिते पादपीठे सा त्रिशला राज्ञी दुखेन निषेदुषी मार्गश्रममपनीय हृष्टमनाः सिद्धार्थराजमिति व्याहर्तुं प्रारभे-स्वामिन् ! अहमस्यां रजन्यां गजट्टषभादिचतुर्दशमहास्वप्नानद्राक्षं, ते मह्यं कीदृशं फलं वितरीष्यन्तीति त्रिशलया भाषितं निशम्य सिद्धार्थो राजा मनसि प्रहर्षभरमधिगच्छन्, मेघधाराभिषिक्तकदम्बवत्प्रहृष्यद्रोमराजिस्तदर्थान् विचार्य प्रेयसीं त्रिशलाराज्ञी मधुरया सस्नेहया वाचा तदैवमाचष्ट - देवानुप्रिये ! त्वया महाफलदातारः श्रीचिरायुरारोग्यकर्त्तारः शिवप्रदास्ते स्वप्ना ददृशिरे । तेन त्वमवश्यमर्थं भोगं सुखं राज्यञ्च लप्स्यसे । सार्धसप्तदिवसाधिकनवमासपरिपूर्णत्वे जाते सति मत्कुले ध्वजायितं मत्कुलभवनदीपककल्पं, मत्कुलकमलदिवाकरं, वंशाधारं, कुलविस्तारकरं, त्रिभुवनख्यातयशस्करं, भूधरस्थेमभाजं, नृपतिकुलमुकुटायमानं, कल्पतरुमिव सकलजनवाञ्छितप्रदं त्रिलोक्या तोष्ट्रय्यमानं, चराचरोपकारकरं, शशाङ्कमिव सौम्याकारं, मार्त्तण्डमित्र तेजस्विनं, सल्लक्षणव्यञ्जनापेतं, मानोन्मानमितशरीरं, निरवद्यरम्याऽशेषावयवं पटिष्ठपञ्चेन्द्रियम्पुत्रं प्रसविष्यसे । स च समुल्लसितयौवनवयाः स्वत एव सर्वासु कलासु विद्यासु च परिपक्कविज्ञानप्रावीण्यं लप्स्यते, याते च यौवने वयसि वदान्यानां धुर्यः प्रतिज्ञापालकः, महाशौर्यशाली, सङ्ग्रामे दुर्जयः, परचक्रपराक्रमिष्णुः,
Jain Education International
For Private & Personal Use Only
( ७१ )
www.jainelibrary.org