________________
(७०)
श्रीकल्पसूत्रार्थप्रबोधिनी. भ्यमयनवसुमविरचितदामवृन्देन सौवर्णपत्रलम्बितमौक्तिकदामभिश्च शो भमानम् , वृकवृषभतुरगगजमृगपतिनरमकरकिन्नरमृगसरीसृपशरभधेनु. कमलाऽशोकप्रमुखविचित्रचित्रचित्रितम् , मधुरगीतमण्डितम्, मृदङ्गतन्त्रीझल्लरीप्रभृतिपञ्चवादित्रनादनादितम् , अनवरतसजलजलदनिनदातिरस्कारिदुन्दुभीध्वानपरिपूरिताऽशेषलोकम् , सर्वतः प्रसृत्वरदह्यमानदशाङ्गादिधूपमघमघायमानगन्धाभिरामम् , श्वेतकान्तिमत् , सुरगणैः सं. सेवितम्, शातावेदनीयकर्मजन्यफलभोग्यम् , पुण्डरीकमिवाऽतिश्रेष्ठ, पुण्डरीकवरविमानमद्राक्षीत् ।
१३ पुलक १ वज्र २ नीलरत्न ३ मसारक ४ कर्केतन ५ लोहिताच ६ मरकत ७ सस्यक ८ प्रवाल ९ स्फटिक १० सौगन्धिक ११ हंसगर्भा १२ ऽञ्जनप्रभ १३ चन्द्रप्रभाणां पुञ्जीकृतानां रत्नानां राशिम्, भूतलस्थितमपि स्वप्रभानिचयेन नभो मण्डलमशेषमतिभासयन्तम् , मेरुगिरिमिवोन्नतं प्रेक्षाञ्चके।
१४ विपुलाऽमलघृतमधुसिच्यमानयाऽतएव धूमरहितया धगद्धगितिज्वलन्त्या देदीप्यमानया शिखावल्या शोभमानम् , अन्योऽन्याऽऽश्लिष्टज्वलज्ज्वालाजालम् , ऊर्ध्वगया विलोलशिखया तारापथं लेलिहा. नम्, शिखिनमीक्षाञ्चके। ___अत्राऽयं विवेकः-स्वर्गाच्च्युत्वा तीर्थङ्करजीवो यस्यागर्भेऽवतरति, सा द्वादशे स्वप्ने देवविमानं पश्यति । यस्याश्च गर्भे नरकाच्च्युतस्तीर्थङ्करजीवोऽवतरति सा खलु देवभवनमेव तत्स्थाने प्रेक्षते । सकलास्तीर्थङ्करमातरो यस्यां रात्रौ भगवान् गर्भेऽवतरति, तस्यामेतान्महामइलमयाँश्चतुर्दशस्वप्नान् पश्यन्तितमाम् । तेषां मध्ये प्रथमतीर्थकन्माता वृषभं मध्यगानां प्रसूर्गजं चरमजिनस्य च जननी मुखमाविशन्तं सिंहमपश्यदिति । शाश्वतो नियमो जागर्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org