SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयं व्याख्यानम् । (६६) ११ शशधरकरनिकरसोदरमध्यशोभम् , चतुर्दिकप्रसृताऽगाधजलप्रवाहम् , चपलतरात्मप्रमाणोत्थितकल्लोललोलजलम् , महोर्मिमालम् , अधीरसमीरसमीरणादितस्ततोनृत्यद्भिरिव व्यक्तैरुल्लोले राजमानम् , अतिभीषणपरिभ्राम्यदावतम् , महामकर-मीन-तिमि-तिमिङ्गल-तिल तिलिकादियादसां पुच्छाच्छोटनोद्भूतप्रभूतकरोज्ज्वलफेनप्रसरम्, यत्र चतुर्दशचर्तुदशसहस्रनदभिः सह गङ्गासिन्धुश्च भरतक्षेत्रीया महानदी सङ्गच्छते, तावता परिवारेण सहैरावतक्षेत्रीया रक्ता रक्तवती च महानदी महतावेगेन यं मिलति । अष्टाविंशत्यष्टाविंशतिसहस्रनदीपरिवृते हेमवत्क्षेत्रीये रोहिता रोहितासा महानद्यौ यत्र निपततः । तावद्भिरेव परिवारैः सार्धमैरण्यवत्क्षेत्रीये सुवर्णकूला रूपकूला महानद्यौ च यं सङ्गच्छेते । षट्पञ्चाशत्षट्पञ्चाशत्सहस्रनदीभिर्युते हरिकान्ता हरिसलिला नद्यौ हरिवर्षक्षेत्राजवेन यं मिलतः। एतावत्संख्याकन परिवारेण युते रम्यक्षेत्रीये नरकान्ता नारिकान्ता महानद्यौ यत्राऽऽपततः। पञ्चपञ्च लक्षादुपरि द्वात्रिंशद्वात्रिंशत्सहस्रपरिवारयुते महाविदेहक्षेत्रवाहिन्यौ सीता सीतोदा महानद्यौ यमाश्लिष्यतः। समस्तगणनया षट्पञ्चाशत्सहस्रोत्तरचतुर्दशलक्ष (१४,५६००० ) नद्यो यत्र मिलन्ति तं लवणो. दधिं प्रेक्षितवती। यत्सूत्रे खलु क्षीरसागरदर्शनस्यैव प्रतिपादनात्ततोऽन्यत् कथमत्राऽवर्णयत् ? तदेवं समाधेयम्-यत्तत्र क्षीरार्णवपदेन लवणोदधिरेव ग्राह्यः, नोचेद् गङ्गासिन्धुप्रमुखानां तत्र पतनं सूत्रसम्मतं विरुध्येत । अतः सूत्रे क्षीरसागरपदमुपलक्षणतया लवणसागरपरमित्यवगन्तव्यम् । १२ सत्सुवर्णमणिरत्नप्रकरदेदीप्यमानाऽष्टाधिकसहस्रस्तम्मकम् , निजप्रभाभासितगगनमण्डलम्, प्रतिस्थानविन्यस्तनन्दनवनोद्भुतसौर. दा अलयो यत्रेति बहुब्रीहिः । असौ षट्पदोऽपि नो बभूव, यः कलं मधुरमव्यक्तं न जुगुञ्ज, गुञ्जितमपि तन्नाऽऽसीत् , यल्लोकानां मनो नं जहार नो दृतवत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy