________________
(६८)
श्रीकल्पसूत्रार्थप्रबोधिनी. १४००, आश्विने १६००, कार्तिके ११००, मार्गशीर्षे १०५०, पौषे १००० माघे ११००, फाल्गुने १०५० इति ।
८ देदीप्यमानसुवर्णदण्डोपरिसंस्थितम् , सितपीतलोहितादिपञ्चवर्णैः कमनीयदृश्यतमम् , उपरिधृतमयूरपिच्छेन कृतचूडमिव भासमानम् , अधिकश्रीकम् , स्फटिक-शव-तुषार-रजतकुम्भ-कुमुद-कुन्दचन्द्रवद्धवलेन शिरश्चित्रितेनाकाशमण्डलं भेत्तुं कृतोद्यमेनेव लक्षितेन सिंहेन शोशुभ्यमानम् , धीरसमीरवञ्चञ्चलम् , सौम्यं महान्तं ध्वज विलोकयामास ।
६ जात्यकाञ्चनमिवाऽतिनिर्मलमतएव रोचिष्णुतमम्, वारिपू. र्णन , भाविमङ्गलसूचकम् . परितः कमलकलापतः शोभितम् , सकलमङ्गलागमन पदनम् , महार्हरत्नभासुरकमलोपरिमुक्तम् , दर्शकजनलोचनाऽमन्दाऽऽनन्दसन्दोहकरम् , प्रभाभिरसमानमनुपमम् , सकलार्त्तव. सुरभिपुष्पविरचितदामभिः शोभितग्रीवम् , राजतं सजलं कलशमपश्यत्।
१० सूर्याऽरुणकिरणविशुद्धपद्माकरपरागसुरभिजलम् , मीनोच्छलितजलसञ्चयम्, कमल-कैरव-कोकनद-पुण्डरीकाणां विविधवर्णानां प्रसर्पन्त्या श्रिया शोभमानम् , अतिलीनप्रमत्तमधुकरनिकरनिषेवितकमलवनम्, राजहंससारस-चक्रवाकप्रमुखविहगगणैः सेव्यमानम्, सरोजिनीदलोपलग्नमुक्ताकारजलकणवजैः कृतप्रसाधनमिव भासमानम् , हृदयनयनयोः प्रीतिकरम् ‘पद्मसर' इति सरोवरं ददर्श । यत्रैवमुत्प्रेक्षन्ते कृतिनः
न तज्जलं यन्न सुचारु पङ्कजं, न पङ्कजं तद्यदलौनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं, न गुञ्जितं तन्न जहार यन्मनः॥
१ तजलं नाऽऽसीत् , यत्-यत्र सुचारु-सुन्दरं पङ्कजं नास्ति स्म, तत्पङ्कजमपि नाऽऽ. सीत्, यत्र पङ्कजे पट्पदो भ्रमरो लीनो जुषमाणो नाऽभूत , न सन्ति लीनाः संसक्ताः षट्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org