________________
तृतीयं व्याख्यानम् ।
(६७) निजाऽनुपमाऽऽमोदभरैर्दशापि दिशः सुवासयन्तीम् , सकल सम्भूतसुरभिकुसुमभृताम् , मनोहारिरक्तपीतशुक्लादिविविधवर्णाम् , सौरभ्यातिशयादनारतमतिलीनषट्पदारब्धगुञ्जारवमुखरीकृताम् , विचित्ररचनारचि. तामाकाशात्पतन्तीं मालाद्वयीमालुलोके ।
६ गोक्षीरफेनगौरम् , राजतशरावोपमं, सौम्यतरम् , सकलजनहृदयनयनानन्दकरम् , जगत्तिमिरनिकरापहारकरम् , गगनसरसीराजहंसम् , कन्दर्पदर्पप्रवृद्धिकरम् , चिरविरहिणीप्राणान्तकरम्, प्रतिपौर्णमास सागरोल्लासकरम् , वर्षमासादिमानकारिद्विपक्षकरम् , कुमुदवनानि विबोधय न्तम् , रात्रिशोभाकरम् . दिगणनाभालतिलकमिव शोभमानम् , रोहिणीवल्लभम् , सम्पूर्णकलं चन्द्रमपश्यत् । यमेवं कवय उत्प्रेक्षन्ते
आकाशवापीसितपुण्डरीकं, शाणोपलं मन्मथसायकस्य । पश्योदितं शारदमम्बुजाक्षि ? सन्ध्याङ्गनाकन्दुकमिन्दुबिम्बम् ॥१॥
७ रक्ताशोक-पलाशपुष्प-शुकमुख-गुञ्जार्धमिव रक्ततरम्, कमलवनविकाशकम् , भुवनभवनदीपकम् , हिमानां गलग्रहम् , ग्रहपतिम् , निशाविनाशकरम् , उदयास्तवेलायामेव मुहुर्त्तमात्रदर्शनीयम् , दुश्वारिणीनां रजनीप्रियाणां स्तेनानाञ्चेच्छाविघातकरम् , तमःस्तोमप्रणाशकरम् , शीतबलविघातकम् , कनकगिरि परिक्रामन्तम् , निजकरनिकरभरेण समस्तज्योतिश्चक्रस्य तिरस्कर्त्तारम् , सहस्रांशुमालिनं भानुमुदैक्षिष्ट । सूर्यस्य सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वादभाणि, ऋतुभेदे तु तदंशभेदतारतम्यादधिकं स्यात् । तथाचोक्तम्-चैत्रे १२००, वैशाखे १३००, ज्येष्ठे १४००, आषाढे १५००, श्रावणे १४००, भाद्रपदे
१ अयि कमलाक्षि ! पश्येदमुदितं शारदमिन्दुबिम्बम् , किमु-आकाशरूपा या वापी तस्याः सितपुण्डरकिं श्वेतकमलम् ?, अथवा मन्मथस्य मदनस्य यः सायकः शरस्तस्य घर्षणाय शाणचक्रम् ?, अथवा सन्ध्याङ्गनातद्रूपा काचित्कान्ता तयोक्षिप्तं कन्दुकमिति ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org