________________
( ६६ )
श्री कल्पसूत्रार्थ प्रबोधिनी.
अतिगभीरनाभिकूपाम्, तनुतराऽतिमञ्जुलसुकोमलरोमराजिम्
अनेकजातीयशशिकान्तसूर्यकान्तादिमहार्हमणिगणभूषिताङ्गाम्, मुद्रिकादिभासुरमणिमयविभूषणमण्डितोपाङ्गाम् नन्दनवनजसुरभिसुमविरचितमालया मौक्तिकदाम्ना च शोभितग्रीवाम्, कनककलशायिताऽतिवर्त्तुल कठिनतरपीवरस्तनमण्डलाम्, यथास्थानविरचितपत्ररचनाविच्छित्तिधराम्, दीनारमालया सुमण्डितारःस्थलाम्, मणिगणजटिताऽतिलोलगोलकुण्डलयुगल परिशोभितवदनाम्, अमलकमलदलविशाललोचनयुगलाम्, याभ्यामनारतं मकरन्दवारि क्षरति, ते कमले करकमलाभ्यां दधानाम्, लीलावीजिततालव्यजनशोभमानाम्, तनुलम्बमानकबरीभारामनुपमामीदृशीं श्रीदेवीं दिग्गजैरतिपीनदीर्घशुण्डाभिः परिषिक्तां सा त्रिशला दृष्टवती ।
इति श्रीवीर जिनशासनस्फारशृङ्गारहार- सुविहितसूरिपुरन्दरनन्दनवनाऽऽरामविहारि -शिथिलाऽऽचारप्रचारत मोहारि - जैनाचार्यश्रीमद्विजयराजेन्द्रसूरीश्वर सङ्कलितायां श्रीकल्पसूत्रार्थप्रबोधिनी' नाम्नीटीकायां द्वितीयं व्याख्यानं समाप्तम् ।
अथ तृतीयं व्याख्यानं प्रारभ्यते ।
५ मन्दार - चम्पकाशोक - प्रियङ्गु - मल्लिका - कोज - कोरण्ट-तिलक-बकुल-सहकार-पाटल - कुन्दाऽतिमुक्तादीनां द्रुमाणाम्, कमलकुमुदमल्लिकायूथिकाजातीकेतकीनवमालिका वासन्तीप्रमुखलताञ्च, सुरभिभराणां सद्यस्कैः कुसुमैर्विरचिताम्, सौरभ्यातिशयेन घ्राणतर्पणकरीम्,
Jain Education International
भट्टारक
धिक्यं वन्दमान:- प्रशंसन् मनोभूः - काम स्त्रिवल्या मिषेण व्याजेन त्रिरेखाया - रेखात्रयस्य विधाने - करणे न भूतः - ईदृशी शोभा कापि नाऽभूत्, पुरा न भावी, नामे कस्यापि भविष्यति, नवा कस्यापि सांप्रत मीदृशी शोभा वर्त्तते इति समूचे जल्पितवान् इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org