SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीयं व्याख्यानम् । (६५) तिष्ठति, तदुपरि श्रीदेव्याः सुरम्या शय्या विलसतितमाम् । तन्मुख्यकमलात्परितश्च कमलादेव्या आभरणभूतानि वलयाकाराणि प्रागुक्तमानादर्धमानोच्चदीर्घत्वपृथुत्ववन्त्यष्टोत्तरशतकमलानि विभ्राजन्ते । एवं प्रतिवलयं क्रमादर्धाऽर्धमानवमूह्यमिति प्रथमवलयः । द्वितीये च वायव्येशानोत्तरदिक्षु चतुःसहस्रतामानिकदेवानां ४०००, प्राच्यां चत्त्वारि महत्तरदेवकमलानि, आग्नेय्यां गुरुस्थानीयानामाभ्यन्तरपरिषदे. वानां ८०००, दक्षिणस्यां मित्रस्थानीयमध्यमपरिषद्देवानां १००००, किङ्करस्थानीयबाह्यपरिषद्देवानाञ्च १२००० कमलानि । प्रतीच्यां तु गज-तुरग-रथ-पदाति--महिष--गन्धर्व---नाट्यरूपसप्तकटकस्वामिनामावासभूतानि सप्तकमलानि सन्ति । तृतीयवलये श्रीदेव्या अङ्गरक्षकषोडशसहस्रदेवानां निवासाय १६००० कमलानि, चतुर्थवलये आभ्यन्तराऽभियोगिकद्वात्रिंशल्लक्षदेवानां ३२०,०००० कमलानि, पञ्चमवलये मध्यमाभियोगिकदेवानां ४०,००००० कमलानि, षष्ठवलये बाह्याभियोगिकदेवानाञ्च ४८,००००० कमलानि वर्तन्ते । सर्वेषामेकत्र सङ्कलने चैकाकोटिविंशतिर्लक्षाः पञ्चाशत्सहस्त्राणि शतमेकं विंशतिश्च । ईदृक्परिवारभूते मुख्यकमले सुखाऽऽसीनाम् , विन्यस्तकनककमठाऽनुकारिसौन्दर्यहारिनवकिसलयकल्पचरणाम् , प्रशस्ताम् . परिपुष्टतराङ्गुष्ठाम् , नैसर्गिकाऽतिरक्तत्वाल्लाक्षारञ्जितमिव सुश्रीकं चरणयुगलं बिभ्रतीम् , तनुस्निग्धताम्रनखीम् , अरुणकमलदलपेशलपाणितलाम् , तनुस्पष्टपर्वाकुलीम् , करिवरकरजघनाम् , पीवरसुश्रोणीम् , मनोहरकटितटीम् , मुष्टिमेयमध्याम्,प्रशस्तया त्रिवल्या विभूषिताम् , यामुदीक्ष्य कवयोवर्णयन्ति त्रिवल्या मिषेण त्रिरेखाविधाने, समूचे मनोभूरहं वालिजाने । उरोवर्द्धितं श्रीचयं वन्दमानो, न भूतो न भावी न वा वर्तमानः ॥ १ अयिबाले ! अहं जाने-मन्थे, यद् उरोवर्द्धित-वक्षसि जातं निरुपम श्रीचयं सुषमाऽऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy