________________
( ६४ )
श्री कल्पसूत्रार्थ - प्रबोधिनी.
म्, शास्त्रोक्ततनुप्रमाणवन्तम्, महामेघगम्भीरनादवन्तम्, प्रशस्ताऽशेषलक्षणलक्षितम्, दन्तिनं सा प्रथममद्राक्षीत् ।
२- धवलतरकमलदलनिकराऽधिकतर शरीरशोभाधरम्, निजविग्रहत्विषा दश दिशः प्रद्योतयन्तम् अत्युन्नतककुद्मन्तम्, सुस्निग्धरोमराजिकम्, अतिमांसलम्, सुन्दरतरमतिवर्त्तुलनिर्मलकमनीयगवलयुगलघरम, सुषमाशालिसितदन्तम् प्रसन्नतरम् मङ्गलकरं वृषभमदर्शत् ।
·
३- शारदशर्वरीशवत्पाण्डुरम्, रजतगिरिमिव दृश्यमानम् दृढतराऽशेषविग्रहम्, कमनीयदर्शनम्, दृढपरिपुष्टप्रकोष्ठम्, अतितीक्ष्णवलिष्ठदंष्ट्राशोभमानवदनम्, रक्तोत्पलाभकोमलोष्ठतालुकम्, रक्तारविन्ददलायतविलोलजिह्वम्, पीतविद्युच्चञ्चलनेत्रम्, विशालस्कन्धम्, उपचिताऽवयवम्, अत्यायत केसराऽऽडम्बरधरम्, कुण्डलीकृतलाङ्गुलम्, विशालपीवरवक्षःस्थलम्, सलीलं सिंहमद्राक्षीत् ।
४- शतयोजनोच्चो द्वादशकलाधिकद्विपञ्चाशद्योजनोत्तरसहस्रयोजन १०५२१२ विस्तारवान् स्वर्णमयो हिमालयो नाम नगाधिराजो वर्त्त । तदुपरि दशयोजनाऽवगाही पञ्चशतयोजनपृथुलः सहस्रयोजनदीर्घः, वज्रमयतलभागः 'पद्म' नामको इदोऽस्ति । तन्मध्ये जलाद् गव्यूतिमात्रोचं, योजनपृथुलमेतावन्मात्रदीर्घं, नीलरत्नमयदशयोजनमात्रनालं, वज्रमयमूलं, रिष्टरत्नमयकन्दं, कोकनदमयबाह्यपत्रं. स्वर्णमयमध्यपत्रमित्थंभूतमेकं ' कमलं ' विद्यते । तत्र कोशद्वयपृथुला तन्मा
दीर्घा क्रोशमात्रोन्नता रक्तैः स्वर्णमयैश्च केसरैरतिमण्डिता स्वर्णमयी ' कर्णिका ' वर्त्तते । तन्मध्यभागे च क्रोशार्धपृथुलं कोशदीर्घं किञ्चिदूनकोशोच्चं श्रीदेव्या भवनं जागर्त्ति । सन्ति च तस्य पञ्चशतधनुरुचानि तदर्धपृथुलानि त्रीणि द्वाराणि प्रागुत्तरदक्षिणदिस्थिता । भवनस्य मध्यप्रदेशे च सार्धशतद्वयधनुर्मिता रत्नमयी ' वेदिका
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org