________________
द्वितीयं व्याख्यानम् ।
(६३) भगवतो महावीरस्य देवानन्दायाः कुक्षौ घ्यशीत्यहानि गतानि, आश्विनकृष्णत्रयोदश्यां व्यशीतितमदिवसस्य रात्रौ च त्रिशलाया गर्भे संक्रमणमभवत् । तत्रेतो मामपहरिष्यतीति विद्वान्भगवान्, किन्तु संहरणकालस्यातिसूक्ष्मतया संहियमाणो न जानाति । ननु त्रिभिमा॑नः सहावतीर्णस्य भगवतस्तदज्ञानकथनं नो घटेत ?; अत आह-तेन देवेन भगवतस्तथा संहरणमकारि यथा भगवतो ज्ञातमप्यज्ञातमिवाऽभवत् । नो जानातीति तु संहाः कौशल्यप्रदर्शनायैवास्तीति बोधव्यम् । संहृतोऽस्मीति तु विद्वानेव भगवान् । अपहृते भगवति तस्यामेव यामिन्यां देवानन्दा सुखशय्यायां शयानाऽपश्यत्-यदहं प्रागद्राक्षं चतुर्दशस्वप्नान्मङ्गलमयाँस्ताँस्त्रिशला हृतवतीति दृष्दैव जजागार । १९ त्रिशलायाश्चतुर्दशस्वप्नदर्शनम्
इतश्च तस्यामेव रजन्यां भगवति गर्भे संक्रामिते यस्य स्वरूपं वर्णयितुं सहस्रजिह्वोऽपि नो शक्नुयात्तादृशे सुरेन्द्रभवनादधिकतररम्यतरे, विचित्रचित्रचित्रिते, बहिर्मुदुतरशुभ्रतरप्रस्तरविरचितकुड्ये, वि. विधचित्रविभूषितोर्धदेशेऽतएव देदीप्यमानाऽधस्तले, मणिरत्नप्रणाशितान्धकारे, सुविभक्तबहुविधस्वस्तिकादिरचनामनोहरे, परितो विकीर्णपञ्चवर्णसुरभिकुसुममण्डिते, दह्यमानदशाङ्गादिविविधधूपसमुद्भूतप्रभूतमघमघायमानगन्धाभिरामे, शयनागारे पुण्यवतामुपभोग्ये, उभयतो न्यस्तशरीरप्रमाणदीर्घगण्डोपधानयुगले, तथा शिरःस्थाने पादयोः स्थाने च धृतोच्छीर्षके, सुरसरित्पुलिनसैकतमिव मृदुतरे, उपर्याच्छादितक्षोमपटे, रम्यतरमशकहरगृहेण शोभायमाने, नवनीताकैतूलतुल्यमृदुले, सुरभिवासैश्च सुवासिते, शयनीये सुखसुप्ता त्रिशला गजवृषभादिचतुर्दशमहास्वप्नान् दृष्ट्राऽजागरीत् । तथाहि--
१-चतुर्दन्तमुच्चैस्तमम् , रजतगिरिमिव गौरम् , कुम्भद्वयात्सवन्मदगन्धलोलुपमिलिन्दारब्धगुञ्जारवशोशुभ्यमानम् , सुरपतिगजतुल्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org