SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] त्रयोदशी शुद्धभिक्षाविधिविंशिका [ ८७ टीका--शतिम् आधाकर्मादिना १। प्रक्षितम् उदकादिना २। निक्षिप्तं पृथिवीकायादौ ३। पिहितं बीजपूरकादिना ४। मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत् संहृतम् उच्यते ५। दायको दाता बालवृद्धाद्ययोग्यः ६। उन्मित्रं सचित्तमिश्रम् ७ यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं तद् अपरिणतम् ८ लिप्तं वसादिना ६। छर्दितं परिशाटवदिति १० दश संङ्ख्यया एषणादोषा उक्तस्वरूपा भवन्तीति ।।७॥ अनन्तरोक्तद्वाचत्वारिंशद्दोषपरिशुद्धपिण्डस्य भोजनविधिमाह एयद्दोसविमुक्को जईण पिंडो जिणेणऽणुनाओ। संजोयणाइरहिओ भोगो वि इमस्स कारणओ॥८॥ अक्षरगमनिका-एतद्दोषविमुक्तः पिण्डो यतीनां जिनेनाऽनुज्ञातः अस्य भोगोऽपि संयोजनादिदोषरहितः कारणतः ।।८।। टीका-एतद्दोषविमुक्तः अनन्तरोक्ताधाकर्मादिद्वाचत्वारिंशद्दोषपरिशुद्धः पिण्डः अशनादिको यतीनां श्रमणानां जिनेन श्रीसर्वज्ञभगवता अनुज्ञातो निर्दिष्टः । अस्य परिशुद्धपिण्डस्य भोगोऽपि न केवलं ग्रहणमभ्यवहरणमपि संयोजनादिदोषरहितो वक्ष्यमाणसंयोजनाप्रमाणादिदोषविनिर्मुक्तः कारणतो वक्ष्यमाणवेदनावैयावृत्त्यादिप्रयोजनाद् अनुज्ञात इति शेषः ।।८|| संयोजनादिदोषानाह दव्वाईसंजोयणमिह बत्तीसाहिगं तु अपमाणं। रागेण सइंगालं दोसेण सधूमगं जाण ॥६॥ अक्षरगमनिका-इह द्रव्यादिसंयोजनां द्वात्रिंशदधिकं त्वप्रमाणं रागेण साऽङ्गारं द्वेषेण सधूमकं जानीहि ॥६॥ टीका-इह परिशुद्धपिण्डभोगे लोलुपतया द्रव्यादिसंयोजनां द्रव्यादेर्दधिगुडादेः संयोजनां मिश्रणं विदधतः संयोजनादोषं जानीहि। एवं सर्वत्र वाच्यम्। द्वात्रिंशदधिकं पदैकदेशे पदसमुच्चयोपचाराद् द्वात्रिंशत्कवलप्रमाणातिरिक्तमेवाहारमाहारयतः तुशब्दोऽवधारणे अप्रमाणमप्रमाणदोष, रागेण गृद्धया भुजानस्य चारित्राङ्गराऽऽपादनात् कारणे कार्योपचाराद् रागोऽपि अङ्गारस्तेन सह साङ्गारम् अङ्गारदोषम्, एवमेव वेषेणाऽन्तप्रान्तादावाहारद्वेषाच्चारित्रस्याऽभिधूमनात् पूर्वोक्तन्यायेन द्वेषोऽपि धूमस्तेन सह सधूमकं धूमदोषं जानीहि बोधस्वेति ।।६।। अथ वेदनादिकारणमाह वेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाए छठें पुण धम्मचिंताए॥१०॥ अक्षरगमनिका-वेदनावैयावृत्त्येार्थं च संयमार्थं तथा प्राणवृत्त्यै षष्ठं पुनर्धर्मचिन्तायै ।।१०।। टीका-वेदना क्षुद्वेदना तत्पशमनार्थं तथा वैयावृत्त्यं तदर्थं तथा ईर्यार्थम् ईपिथिकाशोधनार्थं चः समुच्चये संयमार्थं संयमः पेहोपेहपमज्जणादिलक्षणस्तदर्थं तथा प्राणवृत्त्यै प्राणसंधारणार्थं षष्ठं कारणं पुनर्धर्मचिन्तार्थम् । एतद्गाथाव्याख्यानं वक्ष्यमाणभाष्यगाथाद्वयतोऽवसेयम्-"नत्थि छुहाए सरिसया वेयण भुंजेज तप्पसमणट्ठा। छाओ वेयावच्चं न तरइ काउं अओ भुंजे ।।२६०।। इरियं नवि सोहेइ पेहाईयं च संजमं काउं। थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ।।२६१॥ (ओघनियुक्ति भाष्य) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy