________________
८८] त्रयोदशी शुद्धभिक्षाविधिविंशिका
[ विंशतिर्विशिकाः एतद्गाथाद्वयार्थलेशः
नास्ति क्षुत्सदृशी वेदनाऽतो भुञ्जीत तत्पशमनार्थम् । छाओ बुभुक्षितो वैयावृत्त्यं कर्तुं न शक्नोति, अतो भुङ्क्ते ।।२६०।। ईर्यापथिकां बुभुक्षितो न शोधयति यतो तच्छोधनार्थं भुङ्क्ते। प्रेक्षादिकं संयम बुभुक्षितो कर्तुं न शक्नोति यतो भुङ्क्ते । 'थामो' स्थाम प्राणस्तस्य परिहानिर्भवति यदि न भुङ्क्तेऽतस्तदर्थं भुञ्जीत। गुणनं परावर्तनं सूत्रार्थस्य तथाऽनुप्रेक्षा चिन्तनं गुणनानुप्रेक्षे तयोर्बुभुक्षितः अशक्तः अतस्तदर्थं भुञ्जीतेति ।।२६१।। ।।१०|| अथ वस्त्रविधिमाह
वत्थं पाहाकम्माइदोसदुटुं विवजियव्वं तु।
दोसाण जहासंभवमेएसिं जोयणा नेया॥११॥ अक्षरगमनिका-वस्त्रमप्याधाकर्मादिदोषदुष्टं विवर्जितव्यम् । एतेषां दोषाणां योजना यथासंभवं ज्ञेया ॥११॥
____टीका-आस्तां पिण्डो वस्वमपि निर्वसनमपि आधाकर्मादिदोषदुष्टम् अनन्तरोक्तस्वरूपैराधाकर्मोद्देशिकादिभिर्दोषैर्दुष्टम् अकल्प्यमिति विवर्जितव्यं ग्रहणपरिभोगतः परिहर्तव्यम् । एतेषाम् आधाकर्मादीनां दोषाणाम् अपराधानां योजना घटना वस्त्रेऽपि यथासंभवं संभवमनतिक्रम्य ज्ञेया बोद्धव्या। तथाहिआधाकर्म साधुप्रतिज्ञया सूत्रकर्तनादिना वस्त्रं निष्पादयेत्। तथा क्रीतं द्रव्यविनिमयेनाऽवाप्तम् । तथाऽन्यस्मादुच्छिन्नं गृहीतं प्रामित्यम्। तथाऽऽच्छेद्यं कुतश्चिद्बलादाच्छिद्य गृहीतम्। तथाऽनिसृष्टं स्वामिनाऽनुत्सङ्कलितम् । अभ्याहृतं निष्पन्नमेवाऽन्यतः समानीतम्। साधुप्रतिज्ञयैवापरखण्डं संयोज्य बृहत्कृतं यदिवा देशाऽपनयनेन लघुकृतम्। तथा क्षालितम्। काञ्जिकानीलीरागादिना संस्कृतम्। तथा धूपादिना धूपितम्। तदेवम्भूतं वस्त्रं न ग्रहीतव्यम्। विशेषार्थिना श्रीमदाचाराङ्गसूत्रद्वितीयश्रुतस्कन्धगतवस्त्रैषणाध्ययनतोऽवगन्तव्यमिति ।।११।। अथाऽशनपानादिविषयमेव विशेषत आह—
इत्येव पत्तभेएण एसणा होइऽभिग्गहपहाणा।
सत्त चउरो य पयडा अना वि तहाऽविरुद्धत्ति॥१२॥ अक्षरगमनिका-अत्रैव पात्रभेदेनापि एषणाऽभिग्रहप्रधाना भवति सप्त चतस्रश्च प्रकटाः तथाऽन्यापि अविरुद्धेति||१२॥
___टीका–अत्रैव अशनपानादिविषय एव पात्रभेदेनाऽपि पात्रं साधवो गछान्तर्गता गच्छविर्निगताश्च तेषां भेदेनाऽपि एषणा वक्ष्यमाणस्वरूपा अभिग्रहप्रधाना गच्छान्तर्गतानां वक्ष्यमाणानां सप्तानामपि पिण्डैषणानां पानैषणानां च ग्रहणमनुज्ञातं गच्छनिर्गतानां पुनराद्यद्वयोरग्रहः पञ्चस्वभिग्रह इति पात्रभेदेनाभिग्रहप्रधाना एषणा भवति जायते। सप्त संङ्ख्यया पिण्डैषणाः पानैषणाश्चानन्तरवक्ष्यमाणस्वरूपाः। चतम्रश्च वस्त्रैषणाः प्रकटास्तन्त्रप्रसिद्धाः। तथा समुच्चये, आस्तां सप्तभेदा चतुर्भेदा अन्याऽपि उक्तव्यतिरिक्ताऽपि द्रव्यक्षेत्रकालभावभिन्ना अविरुद्धा सूत्रेण सह सुसङ्गतेत्यर्थः ।।१२।।
अथानन्तरोक्ताः सप्त पिण्डैषणाः पानैषणाश्च नामनिर्देशमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org