SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८६] त्रयोदशी शुद्धभिक्षाविधिविंशिका [विंशतिर्विशिकाः प्रामित्यम् ।।३।। परिवर्तिताभ्याहृतोद्भिन्नमालोपहृतं चाऽऽच्छेद्याऽनिसृष्टाऽध्यवपूरकश्चेति षोडश ।।४।। ___टीका—इमे उद्गमदोषाः-साध्वर्थं यत्सचित्तमचित्तीक्रियते तद् आधाकर्म १। तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव लडुकचूर्णादि साधुमुद्दिश्य पुनरपि गुडादिना संस्क्रियते तद् उद्देशिकं सामान्येन, विशेषतः पिण्डनियुक्त्यादिग्रन्थतोऽवगन्तव्यम् २। यद् आधाकर्माद्यवयवमिश्रं तत्पूतिकर्म ३। साधुगृहस्थाद्यर्थमादेरारभ्याहारपरिपाको मिश्रम् ४। साध्वर्थं क्षीरादिस्थापनं स्थापना ५। विवाहादिप्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६। साधूनाश्रित्य गवाक्षादिप्रकाशकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापनं प्रादुष्करणम् ७। द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् ८ । साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत् प्रामित्यम् ६॥ यत् शाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददादि तत् परिवर्तितम् १०। यद् गृहादेः साधुवसतिमानीय ददाति तद् अभ्याहृतम् ११। गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तद् उद्भिनम् १२। मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तद् मालाहृतम् १३। भृत्यादेराच्छिद्य यद् दीयते तद् आच्छेयम् १४ । सामान्यं गोष्ठिभक्ताघेकस्य ददतः अनिसृष्टम् १५ । स्वार्थमधिश्रयणादौ कृते पश्चात् तन्दुलादिप्रसृत्यादिप्रक्षेपाद् अध्यवपूरकः १६। चशब्दाः समुच्चये। इति एवं सर्वमिलने षोडशोद्गमदोषा भवन्ति ।।३-४॥ अथोत्पादनाया दोषानाह धाईदूईनिमित्ते आजीव वणीमगे तिगिच्छा य। कोहे माणे माया लोभे य हवंति दस एए॥५॥ पुट्विं पच्छा संथव विजा मंते य चुन्न जोगे य। उप्पायणाइ दोसा सोलसमे मूलकम्मे य॥६॥ अक्षरगमनिका—धात्री दूती निमित्तमाजीववनीपकश्चिकित्सा च क्रोधो मानो माया लोभश्च भवन्ति दशैते ।। ५।। पूर्वपश्चात्संस्तवो विद्या मन्त्रश्च चूर्णं योगः षोडशं मूलकर्म चोत्पादनाया दोषाः ।।६।। टीका-अमी उत्पादना दोषाः, तद्यथा—अशनाद्यर्थं दातुरपत्योपकारे श्रमणो वर्तत इति धात्रीकर्म तद्दोषदुष्ट: अशनादिपिण्डोऽपि धात्रीपिण्डः। एवं सर्वत्र योज्यम्। तथा दातुः कार्यसङ्घट्टनाय दौत्यं करोतीति दूतीपिण्डः २ | अङ्गुष्ठप्रश्नादि निमित्तं तेनावाप्तो निमित्तपिण्डः ३ । तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४। दातुर्यस्मिन् भक्तिस्तत्प्रशंसयाऽवाप्तो वनीपकपिण्डः ५। सूक्ष्मेतरचिकित्सयाऽवाप्तश्चिकित्सापिण्डः ६। एवं क्रोधमानमायालोभैरवाप्तःक्रोधादिपिण्डः ७-८-६-१०। भिक्षादानात् पूर्वं पश्चाद्वा दातुः 'कायते भवानि'त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्ड:११। विद्ययाऽवाप्तो विद्यापिण्डः १२ । तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३। वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तश्चूर्णपिण्डः १४। अञ्जनादियोगादवाप्तो योगपिण्ड:१५ षोडशं मूलकर्म यत्कर्मणो गर्भशातनादेर्मूलप्रायश्चित्तमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६। एवमेते साधुसमुत्थाः षोडशोत्पादनाया दोषा अपराधा इति ।।५-६॥ अथैषणादोषानाह संकिय मक्खिय निखित्त पिहिय साहरिय दायगुम्मीसे। अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥७॥ अक्षरगमनिका-शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृत दायकोन्मिश्राऽपरिणतलिप्तछर्दितम् एषणादोषा दश भवन्ति ।।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy