SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ८] द्वितीया लोकानादित्वनामा [ विंशतिर्विंशिकाः किंलक्षणाः ? उपयोगयुता सम्बन्धः, तथा त्रिकालजीवनाद् जीवाः सत्त्वाः संसारिणो मुक्ताश्च दर्शनज्ञानान्यतरोपयोगोपयुक्ताः । एते चत्वारोऽप्यस्तिकायाः स्वरूपतः अमूर्ताः, मूर्ता रूपिणः पुनर्विशेषे पूरणाद्गलनाच्च पुद्गलाः संघातभेदाच्च परमाण्वादयो ज्ञेया बोद्धव्या इति ॥ २॥ एते पञ्चास्तिकाया न केवलमनादिमन्तः अपि त्वनिधनाः, तथा कार्यकारणभावेन वर्तमाना अपि स्वं स्वं स्वरूपं न जहतीति दर्शयन्नाह एए अणाइनिहणा तहा तहा नियसहावओ नवरं । वट्टंति कज्जकारणभावेण भवे ण परसरूवे ॥३॥ अक्षरगमनिका - एते अनादिनिधनास्तथा तथा निजस्वभावतो केवलं वर्तन्ते कार्यकारणभावेन तथापि भवन्ति न परस्वरूपाः ॥ ३ ॥ टीका — एते अनन्तरोक्तलक्षणा धर्मास्तिकायादयः अनादिनिधना आद्यन्तरहिताः, तथा तथा तेन तेन प्रकारेण निजस्वभावतो निजः सहजश्चासौ स्वः स्वकीयो भावो भवनं निजस्वभावस्तेन हेतुना नवरं प्राकृतत्वात् केवलं न त्वीश्वरादिप्रेरिता वर्तन्ते विद्यन्ते, किंरूपेण ? कार्यकारणभावेन हेतुफलभावेन प्रतिस्वं परस्परं च, तथाहि - स्वकीयपूर्वपर्यायेण हेतुभूतेन स्वकीयोत्तरपर्यायरूपं फलं प्रतीति प्रतिस्वं कार्यकारणभावः, तथा द्वयोः परमाण्वोः कारणभूतयोः संघाताद् द्विप्रदेशरूपं कार्यमुत्पद्यते, द्विप्रदेशस्याणोश्च संघातात् त्रिप्रदेशः । एवं संख्येयानामसंख्येयानामनन्तानां प्रदेशानां संघातात् तावत्प्रदेशाः स्कन्धाः परमाणवश्च कार्यरूपेणोत्पद्यन्ते । अयं विशेषः - भेदादेव परमाणुरुत्पद्यते न संघातादिति परस्परं कार्यकारण भावः । जीवाजीवान् प्रति गतिस्थित्यवगाहोपग्राहका धर्माधर्माकाशा उक्ता एव । पुद्गला अपि जीवानां शरीरवाङ्मनः प्राणापानसुखदुःखजीवितमरणोपग्रहे वर्तन्ते । एवंभूतेन कार्यकारणभावेन एते सर्वे लोकाकाशे क्षीरनीरन्यायेन वर्तमाना अपि भवन्ति जायन्ते न नैव परस्वरूपाः पररूपेण यथा - जीवाः पुद्गलरूपेण पुद्गलाश्च जीवरूपेण नैव परिणमन्ते, अपि तु सर्वे सदा स्वरूपेणैवावतिष्ठन्त इति ॥ ॥ ३॥ आस्तामेतेषां पररूपेण परिणमनमभावोऽपि न जायत इति निरूपयन्नाह ण वि य अभावो जायइ तस्सत्ताए य नियमविरहाओ । एवमणाई एए तहा तहा परिणइसहावा ॥४॥ अक्षरगमनिका - अपि च- नाऽभावो जायते तत्सत्तायाश्च नियमविरहात् । एवमनादय एते तथा तथा परिणतिस्वभावाः || ४ || Jain Education International टीका—आस्तां पररूपेण परिणमनम् अपि चः अभ्युच्चये न नैव अभावः सर्वथा विनाशो जायते भवति तत्सत्तायास्तेषां धर्मास्तिकायादीनां सत्त्वस्य चः समुच्चये कस्मात् ? उच्यते, नियमविरहाच्च - 'यद्यत् सत् तत्तत् सर्वथा विनाशी 'ति नियमस्य व्याप्तेर्विरहात् अभावादिति हेतोः । यदि वा सतोऽपि द्रव्यस्याऽभावो जायेत तर्हि तत्सत्ता कादाचित्की स्यात् । एवमसत उत्पादोऽपि दुर्निवारः स्यात् । कस्मात् ? नियमविरहाद्नियामकाभावात् । न चैतद् दृष्टमिष्टं च । तस्मात् तेषां सर्वेषां धर्मास्तिकायादीनां शाधती सत्ताऽभ्युपगन्तव्या । एवम् अनन्तरोक्तयुक्त्या अनादय आदिविरहिता एते धर्मास्तिकायादयस्तथा तथा तेन तेन प्रकारेण परिणतिस्वभावाः परिणतिः परिणमनं भवनमिति यावत् स्वभावः प्रकृतिर्येषां ते तथा ज्ञेयाः, तथाहि - यथा For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy