________________
विंशतिर्विशिकाः ]
द्वितीया लोकानादित्वनामा
[ ६
स्वर्ण कटककुण्डलादिभिर्विविधपर्यायैः परिणममानमपि सर्वपर्यायेषु स्वर्णतयाऽन्वेत्येव । परिवर्तमानेष्वपि पर्यायेषु स्वर्णस्य नैवाभावो जायते । तथैवाऽऽत्मादयः पदार्था अपि नरामरतिर्यगादिभिः पर्यायैः परिणममाना अपि आत्मादिद्रव्यरूपेण सर्वदान्विता भवन्ति । न कदापि तेषां सर्वथाऽभावो जायते । उक्तं च-मूर्तामूर्तं द्रव्यं सर्वं न विनाशमेति नान्यत्वम् । (लोकतत्त्वनिर्णयः ) || ४ || युक्त्या धर्मास्तिकायादीनामनादित्वं साधयित्वाऽधुना तेषां तथास्वभावकल्पनातोऽपि आदिमत्त्वं निरस्यन्नाह -
इत्तो उ आइमत्तं तहासहावत्तकप्पणाए वि । एसिमजुत्तं पुव्विं अभावओ भावियव्वमिणं ॥ ५ ॥
अक्षरगमनिका - इतस्त्वादिमत्त्वं तथास्वभावकल्पनयापि एतेषामयुक्तं पूर्वमभावतो भावयितव्यमिदम् ॥ ५ ॥
टीका — इतः अनन्तरोक्तयुक्तित एव तुरवधारणे आदिमत्त्वं प्रथमप्रथमोत्पत्तिः सृष्टिर्वा आस्तां हेतुयुक्तिदृष्टान्ताभ्यां तथास्वभावकल्पनयापि तेन तेन प्रकारेण स्वभावस्य प्रकृतेः कल्पनया संवृत्यापि एषां धर्मादीनाम् अयुक्तं युक्त्यानुपपन्नम्। युक्तिमेव दर्शयति- पूर्वं प्राग् उत्पत्तेस्तेषां धर्मादीनाम् अभावतः असत्त्वात् । तथाहि--यदसत्तस्योत्पत्तिस्त्रिष्वपि कालेषु नास्त्येव यथा खरविषाणादीनाम् । आचार्यः अत्यन्तसौहार्देन कथयति-भावयितव्यं चिन्तनीयम् इदं तत्त्वं सूक्ष्मेक्षिकयेति ॥ ५ ॥ यथैते धर्मादयस्तथास्वभावकल्पनयापि न सादिमन्तस्तथा परमपुरुषप्रभवा अपि न सन्तीति प्रदर्शयन्नाह
नो परमपुरिसपहवा पओयणाभावओ दलाभावा । तत्तस्सहावयाए तस्स व तेसिं अणाइत्तं ॥ ६ ॥
अक्षरगमनिका - न परमपुरुषप्रभवाः प्रयोजनाभावात् दलाभावाच्च । तत्तत्स्वभावतया, तस्येव तेषाम् अनादित्वम् अभ्युपगन्तव्यमिति शेषः || ६ ||
टीका—न नैव परमपुरुषप्रभवाः स्वयंभूजन्मान एते धर्मास्तिकायादयः । कस्मात् ? तस्य स्वयंभुवो वीतरागत्वेनाभ्युपगतत्वात् प्रयोजनाभावतः कारणाभावात् । अपि च-सृष्टेः प्राग् दलाभावात् उपादानाभावाच्च । अथ तत्तत्स्वभावतया तस्यानादिमतः स्वयंभुवः स स्वभाव एव तत्तत्स्वभावस्तस्य भावस्तत्तत्स्वभावता तया निष्प्रयोजनोऽपि स दलं विनैव तान् धर्मास्तिकायादीन् सृजति ।
आचार्य आह-तस्य स्वयंभुव इव तेषां धर्मास्तिकायादीनामपि तत्स्वभावतया - ऽनादित्वं शाश्वतिकत्वमभ्युपगन्तव्यं न्यायस्य समानत्वादिति || ६ || अत्र पर आह
न सदेव यऽस्स भावो को इह हेऊ ? तहासहावत्तं । हंताभावगयमिणं को दोसो तस्सहावत्तं ॥७॥
अक्षरगमनिका -न सदैव चास्य लोकस्य भावः । क इह हेतुः ? तथास्वभावत्वमिति चेत् । हन्त ! अभावगतमिदं तथास्वभावत्वमस्तु को दोषः ? ||७||
Jain Education International
टीका — अत्र पर आह-न नैव सदैव त्रैकालिकः चो विशेषे अस्य पञ्चास्तिकायलोकस्य भावः सत्ता यथा स्वयंभुवः । आचार्यः कः प्रश्ने इह स्वयंभूशाश्वतीसत्तायां हेतुर्बीजम् ? अथ तथास्वभावत्वमिति चेत् । हन्त ! आमन्त्रणे तर्हि तथाभूतसृष्टिस्रष्टुः स्वयंभुवः अभावगतम् असत्त्वविषयकम् इदं तथास्वभावत्वं विं. २
For Private & Personal Use Only
www.jainelibrary.org