SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३० ] विंशी सिद्धसुखविंशिका [विंशतिर्विंशिकाः सर्वाकाशे न माति लोकालोकलक्षणेऽनन्तानन्तप्रदेशात्मके न माति नैव समाविंशति। अत्र विषये पूर्वसूरिसम्प्रदायः श्रीप्रज्ञापनाद्वितीयपदगतश्रीमन्मलयगिरिटीकामनुसृत्य लिख्यते—इयमत्र भावना-इह किल विशिष्टाऽऽह्लादरूपं सुखं परिगृह्यते, ततश्च यत आरम्भ शिष्टानां सुखशब्दप्रवृत्तिस्तमालादमवधिकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाह्लादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठामुपगतः, सोऽयमत्यन्तोपमातीतैकान्तौत्सुक्यनिवृत्तिरूपस्तिमिततमकल्पः चरमाह्लादः सदा सिद्धानां, तस्माच्चारतः प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये गुणास्तारतम्येनाऽऽह्लादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं-"सव्वागासे न माइज्जा" इति, अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायाद् ? इति ।।६।। एतदेवाह वाबाहक्खयसंजायसुक्खलवभावमित्थमासज्ज । तत्तो अणंतरुत्तरबुद्धीए रासि परिकप्पो॥७॥ अक्षरगमनिका—व्याबाधाक्षयसञ्जातसौख्यलवभावमासाद्य ततोनन्तरोक्तबुद्ध्या राशिः परिकल्प्यः ॥७॥ टीका-व्याबाधाक्षयसञातसौख्यलवभावं संसारिसत्त्वस्य शरीरं मनश्चाश्रित्य या विविधा आबाधाः पीडास्तासां सिद्धत्वेन क्षयात् सञ्जातमाविर्भूतं यत् सौख्यं तस्य लवः सिद्धत्वप्रथमसमयसुखलेशः स एव भवतीति भावस्तम् आसाय आश्रित्य ततः तत ऊर्ध्वम् इत्थम् एवम् अनन्तरोक्तबुद्धया 'सर्वाद्धापिण्डित' इत्यादिप्रकारेण बुद्ध्या राशिः सिद्धसुखराशिः परिकल्प्यः स्थाप्यो यथा सर्वाकाशे न मायादिति। अथवाऽऽनन्तरगाथाटीकागतभावनामनुसृत्य संसारिसत्त्वस्य यद् जघन्यं सुखं तत आरभ्यैकैकगुणवृद्धितारतम्येन यावत्सिद्धसुखं तावद् ये सुखविशेषास्ते सर्वाकाशप्रदेशेभ्योप्यतिभूयांस इति तान् सुखविशेषानाश्रित्य सिद्धसुखराशिः परिकल्प्यः, तथा च सर्वाकाशेऽपि न मायादिति ।।७।। एष सुखराशिश्च सर्वेषां सिद्धानां निरतिशय एकरूपश्चेत्याह एसो पुण सव्वो वि हु निरइसओ एगरूवमो चेव। सव्वाबाहाकारणखयभावाओ तहा नेओ॥८॥ अक्षरगमनिका -एष पुनः सर्वोऽपि सर्वाबाधाकारणक्षयभावात् खलु निरतिशयस्तथैकरूपश्च ज्ञेयः ||८|| टीका-एष पुनः अनन्तरोक्तसिद्धसुखराशिश्च प्रत्येकसिद्धगतः सर्वोऽपि निखिलोऽपि सर्वाऽऽबाधाकारणक्षयभावात् सर्वा निरवशेषा जन्मादिबाधास्तासां कारणं कर्माष्टकं तस्य क्षयभावाद् विगमादेव हु प्राकृतत्वादवधारणे निरतिशयः परस्परं तारतम्याभावात् सर्वोत्कृष्टः, तथा तेनैव कारणेन एकरूपश्च समानरूप एव ज्ञेयो बोद्धव्य इति ।।८।। नन्वेष सिद्धसुखराशिः संसारिजीवानामिव नीरोगितासुखं धनसुखं कुटुम्बसुखमैश्वर्यसुखमित्यादिभिन्नभिन्नसुखानां समुदाय उताऽन्यथेत्याशङ्कयाह न उ तह भिन्नाणं चिय सुक्खलवाणं तु एस समुदाओ। ते तह भिन्ना संतो खओवसम जाव जं हुंति ॥६॥ अक्षरगमनिका न तु तथा भिन्नानामेव सुखलवानां त्वेष समुदायो यद् यावत् क्षयोपशमस्ते तथा भिन्नाः सन्तो भवन्ति |||| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy