________________
विंशतिर्विशिकाः ] विंशी सिद्धसुखविंशिका
[ १३१ टीका-न तु नैव तथा तेन प्रकारेण भिन्नानामेव पृथक्पृथग्रूपाणां सुखलवानां तु सौख्यांशानां पुनः एष सिद्धसुखराशिः समुदायः संदोहः, यद् यस्माद् यावदवधि क्षयोपशमो ज्ञानावरणीयादिकर्मणां तावत् ते सुखलवास्तथा पृथक्पृथग्रूपेण भिन्नाः विभक्ताः सन्तो विद्यमाना भवन्ति सम्भवन्ति, न पुनः क्षायिकभावे जाते सिद्धत्वे सतीति ||६॥ एतदेवाह
न य तस्स इमो भावो न य सुक्खं पि हु परं तहा होइ।
बहुविसलवसंविद्धं अमयं पि न केवलं अमयं ॥१०॥ अक्षरगमनिका—न च तस्याऽयं भावः, न च सौख्यमपि खलु परं तथा भवति । बहुविषलवसंविद्धममृतमपि न केवलममृतम् ।। १०॥
टीका-न च नैव तस्य सिद्धस्य भगवतः अयं क्षायोपशमिको भावः, न च न पुनः सौख्यमपि क्षायोपशमिकसुखमपि हु प्राकृतत्वात् परमार्थतः परं सर्वोत्कृष्टं यथा सिद्धस्य क्षायिकं तथा भवति जायते। अत्र दृष्टान्तमाह- बहुविषलवसंविद्धं हलाहलाऽनेककणसंपृक्तम् अमृतमपि सुधाऽपि न नैव केवलं शुद्धम् अमृतम्, अपि त्वविशुद्धमेव विषमिश्रितत्वादिति। तथैव क्षायोपशमिकं सुखमपि न केवलं सुखं, परं दुःखसंविद्धमेव सौत्सुक्यात् प्रयासप्राधान्याद् रागानुबन्धित्वाद् हिंसापूर्वकत्वाच्च ।।१०॥ अनेन सिद्धभगवतस्तु सुखं क्षायिकम्। अत एव केवलं सुखम्। तच्चानन्तम्। यत् सर्वाद्धासंपिण्डनमित्यादि प्रागुक्तं तत्तस्यानन्ततादर्शनार्थमेवेत्याह
सबद्धासंपिंडणमणंतवग्गभयणं च जं इत्थ।
सव्वागासामाणं चऽणंततदंसणत्थं तु॥११॥ अक्षरगमनिका—सद्धिासंपिण्डनमनन्तवर्गभाजनं सर्वाकाशामानं च यदत्रानन्तं तद्दर्शनार्थं तु||११॥
टीका-सर्वाद्धासंपिण्डनं सिद्धसुखराशेः सर्वाद्धया गुणनं तथाऽनन्तवर्गभाजनम् अनन्तैर्वर्गमूलैरपवर्तनं तथा सर्वाऽऽकाशाऽमानं च सर्वलोकालोकलक्षणे खेऽसमावेशश्च यत्र सिद्धसुखविचारे चिन्तितं तत् सिद्धसुखस्य अनन्तं भावप्रधाननिर्देशाद् अनन्तत्वं तद्दर्शनार्थं तु तस्यानन्तत्वस्य दर्शनार्थं प्रदर्शनार्थमेवेति ।।११॥ प्रकारान्तरेण सिद्धसुखस्यानन्त्यं निरूपयति
तिन्नि वि पएसरासी एगाणंता तु ठाविया हुंति।
हंदि विसेसेण तहा अणंतयाणतया सम्म॥१२॥ अक्षरगमनिका—त्रयोऽपि प्रदेशराशय एकानन्तास्तु स्थापिता भवन्ति । हन्त ! तथा विशेषेणाऽनन्ताऽनन्तता सम्यक् ।।१२।।
टीका—किलाऽसत्कल्पनयाऽनन्तरोक्ताः त्रयोऽपि प्रदेशराशयः एकस्तावत् सर्वाद्धासमयराशिः, द्वितीयस्तु सर्वाकाशप्रदेशराशिः, तृतीयः पुनः अनन्तंवर्गभक्तः सिद्धसुखराशिः, एकानन्ता तु एकत्रैते त्रयोप्यनन्ता अनन्तसङ्ख्याका राशयः पुनः स्थापिताः पिण्डिता भवन्ति, तथाप्ययं पिण्डितो राशिः हन्त ! आमन्त्रणे सिद्धसुखं न प्राप्नोति। एवं सिद्धसुखस्य तथा तेन प्रकारेण विशेषेण पार्थक्येन अनन्तानन्तता सम्यक् समीचीनतया ज्ञेयेति । श्री प्रज्ञापनासूत्रे तु द्वितीये पदे भङ्गयन्तरेणापि प्रतिपादितम्, तथाहि-सुरगणसुहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org