________________
विंशतिर्विंशिकाः ]
विंशी सिद्धसुखविंशिका
[ १२६
सत्या यत् सुखं ततः तस्मात् सकाशाद् अनन्तगुणं वक्ष्यमाणस्वरूपं भवति जायते इदं सिद्धानां सुखमिति ।। ३ ।। कुत इत्याह
रागाईया सत्तू कम्मुदया वाहिणो इहं नेया ।
लद्धीओ परमत्था इच्छाणिच्चेच्छमो य तहा ॥४॥
अक्षरगमनिका — इह रागादिकाः शत्रवः, कर्मोदया व्याधयो, लब्धयः परमार्थाः, तथाऽनिच्छेच्छा चेच्छा ज्ञेया ॥ ४ ॥
टीका—इह सिद्धसुखप्रस्तावे रागादिकाः रागद्वेषमोहाज्ञानादयः शत्रवो
भावरिपवो जीवाऽपकारित्वात् कर्मोदयाः ज्ञानावरणीयादिकर्मणां विपाकोदया व्याधयो रोगास्तथाजीवपीडनात्, तथा लब्धयः अहिंसादयः परार्थहेतुत्वेन परमार्थाः सर्वोत्तमसम्पदः, तथा समुच्चये अनिच्छेच्छा च अनिच्छा निःस्पृहत्वं तस्य इच्छाऽभिलाषैव इच्छा ज्ञेया बोद्धव्या । एतेषां क्रमशः क्षये सति, विगमे सति, संयोगेन सता तथा सम्प्राप्त्या यत् सुखं तदनन्तगुणं सिद्धानाम् । आस्तामेतच्चतुष्टयनिष्पन्नं सिद्धसुखम् इच्छानिवृत्तिलक्षणेनैकेनाऽपि यदनुभूयते भावयोगिभिस्तदप्यद्भुतमिति || ४ || सिद्धसुखस्याऽनुभवगम्यतामाह—
अणुहवसिद्धं एवं नारुग्गसुहं व रोगिणो नवरं ।
गम्मई इयरेण तहा सम्ममिणं चिंतियव्वं तु ॥ ५ ॥
अक्षरगमनिका —— केवलमनुभवसिद्धमेतत् । इतरेण न गम्यते आरोग्यसुखमिव रोगिणा । तथा सम्यगिदं चिन्तितव्यं तु ||५||
टीका - नवरं प्राकृतत्वात् केवलम् अनुभवसिद्धं सिद्धभगवतामेव प्रत्यक्षसिद्धम् एतत् सिद्धसुखम् इतरेण संसारिणा न नैव गम्यतेऽनुभूयते । अत्रार्थे दृष्टान्तमाह- आरोग्यसुखमिव स्वास्थ्यसुखमिव रोगिणा जन्मजातव्याधितेन । उक्तं च
Jain Education International
रागाईणमभावे जं होइ सुहं तयं जिणो जाणइ ।
न हि सण्णिवायगहिओ जाणइ तदभावजं सोक्खं || १ ||
द्रष्टान्तान्तराण्यपि स्वतः अभ्यूह्यानि, तथाहि —–— यतिसुखमिवाऽयतिना, दर्शनसुखमिव जन्मान्धेन, स्त्रीसुखमिव कन्ययेत्यादीनि । तथा तेन प्रकारेण सूक्ष्मबुद्धयाऽऽगमयुक्तिभिः सम्यग् अवितथम् इदं सिद्धसुखं चिन्तितव्यं तु विचारणीयमेवेति || ५ || चिन्तनप्रकारमाह—
सिद्धस्स सुक्खरासी सव्वद्धापिंडिओ जइ हविज्जा । सोऽणंतवग्गभइओ सव्वागासे ण माइजा ॥ ६ ॥
अक्षरगमनिका सिद्धस्य सौख्यराशिः सर्वाद्धापिण्डितः सोऽनन्तवर्गभक्तः सर्वाकाशे न माति ॥ ६ ॥
टीका — सिद्धस्य सिद्धपरमात्मनः प्रतिसमयमनुभूयमानः सौख्यराशिः सुखसमुदयः सर्वाद्धापिण्डितः सर्वकालसमयलक्षणाऽनन्तसङ्ख्यया गुणितः । ततः स गुणितराशिः अनन्तवर्गभक्तः अनन्तैर्वर्गमूलैरपवर्तितः, तथाहि - २५६ राशेर्वर्गमूलं १६, तस्याऽपि ४, तस्यापि २ इत्येवं तावदपवर्तितो यावत् सर्वाद्धालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याऽप्यपवर्तनैः सिद्धत्वस्याऽऽद्यसमयभाविसुखमात्रतां प्राप्तः सन् विं. १७
For Private & Personal Use Only
www.jainelibrary.org