________________
१२८] विंशी सिद्धसुखविंशिका
विंशतिर्विशिकाः सिद्धसुखविंशिका अनन्तरविंशिकान्तेऽनाबाधं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति यदुक्तं तत् सिद्धसुखमत्र विंशिकायामुच्यते। तथैतद्विंशिकासमाप्तौ च ग्रन्थसमाप्तिर्भविष्यतीति ग्रन्थाऽव्युच्छित्त्यर्थं ग्रन्थकारः अन्तिममङ्गलविधानार्थं परमानन्तसुखसंगतं श्रीमन्महावीरं प्रणम्य प्रतिज्ञातार्थनिरूपणार्थं भूमिकामारचयन्नाह—
नमिऊणं तिहुयणगुरुं परमाणंतसुहसंगयं पि सया। अविमुक्कसिद्धिविलयं च वीयरागं महावीरं ॥१॥ वुच्छं लेसुद्देसा सिद्धाण सुहं परं अणोवम्म।
नायागमजुत्तीहिं मज्झिमजणबोहणट्टाए॥२॥ अक्षरगमनिका—नत्वा वीतरागं त्रिभुवनगुरुं परमानन्तसुखसङ्गतमपि सदाऽविमुक्तसिद्धिवनितं महावीरं मध्यमजनबोधनार्थं ज्ञाताऽऽगमयुक्तिभिर्वक्ष्यामि लेशोद्देशात् सिद्धानां परमनौपम्यं सुखम् ।।१-२।।
टीका-नत्वा प्रणम्य वीतरागं पूर्वोक्तस्वरूपं, त्रिभुवनगुरुं भूतपर्यायेण तीर्थकृन्नामकर्मोदयेन वचनातिशयात् त्रिजगज्जनानां तत्त्वोपदेशेन मोहाऽज्ञानादिनाशकत्वात्, परमं च निरतिशयम् अनन्तं च वक्ष्यमाणस्वरूपं परमानन्तं च तत् सुखं परमानन्तसुखं तेन सङ्गतं समन्वितं परमानन्तसुखसङ्गतमपि सदा नित्यम् अविमुक्तसिद्धिवनितं अपरित्यक्तमुक्तिमहिलम्, श्लेषाऽलङ्कारोऽयम्, महावीरं श्रमणभगवन्तमासन्नोपकारित्वात्तस्य, वक्ष्ये सिद्धानां सुखमिति सम्बन्धः । किमर्थम? मध्यमजनबोधनार्थं शैमूषीं समाश्रित्य मध्यमजनः अपुनर्बन्धकादिः कदाग्रहशैथिल्येन किञ्चिन्मध्यस्थत्वात् तस्य बोधनार्थं ज्ञापनार्थम्। कथम् ? ज्ञाताऽऽगमयुक्तिभिः ज्ञातानि चोदाहरणानि आगमश्चाऽऽप्तोपदेशो युक्तयश्चहेतवो ज्ञातागमयुक्तयस्ताभिः वक्ष्यामि कथयिष्यामि, केन प्रकारेण ? लेशोदेशात् किञ्चिदभिधानेनैव न तु सर्वात्मना, बुद्ध्या बृहस्पतेरपि तथाऽक्षमत्वात्, किम् ? सिद्धानां मुक्तानां परं सर्वोत्कृष्टम् अनौपम्यम् उपमातीतं सुखं शर्म। उपमातीतत्वं तु कथानकादवसेयम्, तच्चेदं एगो महारन्नवासी मिच्छो चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिट्ठो, सक्कारिऊण जणवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उवगारित्ति गाढमुपचरितो, जहा राया तहा चिट्ठइ, धवलघराइभोगेण विभासा, कालेण रन्नं सरिउमारद्धो, रन्ना विसज्जिओ, तत्तो रन्निगा पुच्छंति—'केरिसं नयरंति' ?, सो वियाणंतोऽवि तत्थोवमाभावा न सक्कइ नयरगुणे परिकहेउं। एस दिटुंतो, अयमर्थोपनयः-इत्येवं सिद्धानां सौख्यमनुपमं वर्तत इति ।।१-२॥ प्रकारान्तरेण तत्सुखमाह
जं सबसत्तु तह सव्ववाहि सव्वत्थ सव्वमिच्छाणं।
खयविगमजोगपत्तीहिं होइ तत्तो अणंतमिणं ॥३॥ अक्षरगमनिका-सुखबोधार्थं पूर्वार्धपदानां पश्चार्धपदैः सह यथासङ्ख्यं सम्बन्धः कार्यः, तथाहि-सर्वशत्रुक्षये, सर्वव्याधिविगमे, सर्वार्थसंयोगेन तथा सर्वेच्छासंप्राप्त्या यत्ततः अनन्तगुणं भवतीदम् ।।३।।
टीका-सर्वशत्रुक्षये निरवशेषरिपूणां विनाशे सति, तथा सर्वव्याधिविगमे निखिलरोगप्रणाशे सति, तथा सर्वार्थसंयोगेन प्रार्थिताऽखिलसम्पद्भिः सम्प्रयोगेन सता, तथा सर्वेच्छासम्प्राप्त्या कृत्स्नकामनानां निष्पत्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org