SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विंशिका : ] एकोनविंशी सिद्धविभक्तिविंशिका [ १२७ समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादिकमिति जघन्यतः, उत्कर्षतश्च षण्मासान्तरं षण्मासान् यावद् न कोऽपि सिध्यतीति सर्वत्र भावना || १७ || उपाधिभेदेन भेदान् प्रदर्थ्योपसंहरन् प्रतिज्ञाततथैकरूपतां व्यवस्थापयन्नाह एवं सिद्धाणं पि हु उवाहिभेएण होइ इह भेओ । तत्तं पुण सव्वेसिं भगवंताणं समं चेव ॥ १८ ॥ अक्षरगमनिका —— एवं सिद्धानामपि खलूपाधिभेदेन भवतीह भेदः । तत्त्वं पुनः सर्वेषां भगवतां सममेव || १८ || टीका — एवम् अनन्तरोक्तनीत्याऽऽस्तां संसारिणां सिद्धानामपि मुक्तानामपि खलूपाधिभेदेन सिद्धेः प्रागेव द्रव्यक्षेत्रकालभावात्मकोपाधिभेदन कर्मकृतवैचित्र्यभेदेन वा भवति जायते इह सिद्धविभक्तिप्रस्तावे भेदो विशेषः । तत्त्वं पुनः अनन्तचतुष्टयलक्षणं सिद्धत्वं तु सर्वेषां निखिलानां भगवतां सिद्धपरमात्मनां सममेव तुल्यमेव शुद्धाऽऽत्मस्वरूपत्वादिति ॥ १८ ॥ समत्वमेवाह सव्वे वि य सव्वन्नू सव्वे वि य सव्वदंसिणओ एए । निरुवमसुहसंपन्ना सव्वे जम्माइरहिया य ॥ १६ ॥ अक्षरगमनिका—सर्वेऽपि च सर्वज्ञाः सर्वेऽपि च सर्वदर्शिन एते । सर्वे च निरुपमसुखसम्पन्ना जन्मादिरहिताश्च ॥ १६॥ टीका — सर्वेऽपि च समस्ता अपि सिद्धभगवन्तः पुनः सर्वज्ञाः विश्वविश्ववेदिनः क्षीणज्ञानावरणीयकर्मत्वात्, सर्वेऽपि च निखिला अपि सिद्धपरमात्मनस्तु सर्वदर्शिनः सर्वपश्यकाः समूलदर्शनावरणीयकर्मापगमात्, सर्वे च निःशेषा अपि निरुपमसुखसम्पन्ना उपमातीतसुखसमन्विताः सर्वव्याबाधारहितत्वाद् जन्मादिरहिताश्च जातिजरादिदुःखरहितास्तन्निमित्तरागादिविरहात् कृत्स्नकर्मक्षयाच्चेति ||१६|| क्षेत्रतोऽपि समत्वं प्रदर्शयन् निराबाधसुखस्थितिमाह जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अनुन्नमणाबाहं चिट्ठति सुही सुहं पत्ता ॥२०॥ इति सिद्धविभक्तिविंशिका एकोनविंशी || १६|| अक्षरगमनिका - यत्र चैकः सिद्धस्तत्रानन्ता भवक्षयविमुक्ता अन्योन्यमनाबाधं सुखं प्राप्ताः सुखिनस्तिष्ठन्ति ॥ २० ॥ टीका — यत्र च यत्रैव देशे एकः सिद्धो निर्वृतस्तत्रानन्ता अनन्तसङ्ख्याका सिद्धा भवक्षयविमुक्ताः भवो जन्मादिदुः खरूपः संसारस्तत्क्षयो व्युच्छित्तिस्ततो विमुक्ता विशेषेणाऽपुनर्भावेन कृत्स्नकर्मक्षयाद् मुक्ता मोक्षं प्राप्ताः, अन्योन्यं परस्परं तथाविधाऽचिन्त्यपरिणामत्वाद् धर्मास्तिकायादिवद् अनाबाधं लेशतोऽपि बाधाया देहातीतत्वेनाऽसम्भवात् सुखम् आनन्दं प्राप्ताः सम्पन्नाः, अत एव सुखिनः शिवशर्मसम्पन्नाः, तिष्ठन्ति स्वात्मप्रदेशस्थिरत्वमनुभवन्तीति ॥ २० ॥ Jain Education International * For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy