________________
२] प्रथमाऽधिकारविंशिका
[ विंशतिर्विशिकाः विशेषेण प्रज्ञापनं तस्मै । परेषां ज्ञानादिसंपादनं विहाय परमार्थतः अन्यः परोपकारो न संभवतीति ।।१-२।।
अथ प्रस्तुतप्रकरणरचनौचितीं विरचयन्नाह
सुंदरमिइ अन्नेहि वि भणियं च कयं च किंचि वत्थु ति।
अन्नेहि वि भणियव्वं कायव्वं चेति मग्गोऽयं ॥३॥ — अक्षरगमनिका—सुन्दरमित्यन्यैरपि भणितं च कृतं च किञ्चिद्वस्त्विति अन्यैरपि भणितव्यं कर्तव्यं चेति मार्गोऽयम् ।।३॥
टीका-सुन्दरं शोभनं हितकरत्वाद् इति हेतोः अन्यैरपि पूर्वमहापुरुषैरपि भणितं कथितं चः समुच्चये कृतं विहितं चः पूर्ववत् किञ्चित् सारभूतं वस्तु सूक्तात्मकम् अनुष्ठानरूपं च इति हेतोः अन्यैरपि उत्तरकालभाविपुरुषैरपि भणितव्यं वक्तव्यं च यथाक्षयोपशमं कर्तव्यं चः समुच्चयेऽनुष्ठातव्यञ्च स्वशक्त्यनुरूपम् इति एवम्भूतो मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स मार्गः, स च द्रव्यभावभेदात् द्वेधा-द्रव्यमार्गो ग्रामादेः, भावमार्गो मुक्तिपुरस्य, स च सम्यग्दर्शनज्ञानचारित्रात्मकस्तेनेहाधिकारः। उक्तं च-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थसूत्र १-१) अयं प्रत्यक्षः सदातनत्वात् महाजनो येन गतः स पन्था इति न्यायाच्च। साम्प्रतमपि दृश्यन्ते हि महात्मानो शुभोपदेशाचरणविषये प्रयतमाना इति ।।३।। अन्यथा महापायं दर्शयन्नाह
इहरा उ कुसलभणिईण चिट्ठियाणं च इत्थ वुच्छेओ।
एवं खलु धम्मो वि हि सवेण कओ ण कायव्वो॥४॥
अक्षरगमनिका-इतरथा तु कुशलभणितीनां चेष्टितानां चेह व्युच्छेदः। एवं खलु धर्मोऽपि हि सर्वेण कृतो न कर्तव्यः ।।४।।
टीका-इतरथा-महापुरुषैर्भणितानां सूक्तानामभणने तथा तैस्तैः पुरुषसिंहै: समाचीर्णस्याऽसमाचरणे च तुर्विशेषद्योतने विशेषश्च महापायः स च प्रदर्श्यत एव, तथाहि-पूर्वमहापुरुषभणितानां कुशलभणितीनां शास्त्ररूपेण लब्धाऽऽत्मलाभानां शोभनसूक्तीनां चेष्टितानां प्रवृत्तसमाचाराणां चः समुच्चये इह लोके व्युच्छेद आत्यन्तिको नाशः स्यात् ।
__ पूर्वभणितानामिव भणने चेष्टितानां च चेष्टने किं कोऽपि नियोगोऽस्तीति, अथवा पूर्वं बहुभिर्भणितं चेष्टितं चेति कृतं साम्प्रतकालीनानां भणितेन चेष्टितेन चेत्याशङ्कयाह-एवं कुशलभणितीनामभणने शुभचेष्टितानां चाऽचेष्टने यो हेतुरुदाहृतः स एव हेतुर्धर्माऽकरणेऽपि किं न स्यात्, तथाहि—खनु सान्त्वने धर्मोऽपि दानशीलादिरूपः श्रुतचारित्रात्मको वा हिर्यस्मात् सर्वेण बालवृद्धादिना बहु कृतो विहितस्तस्मात् न नैव कर्तव्य आचरितव्य इति प्रसज्येत। अनिष्टं चैतदिति ।।४।। अस्मिन्नेव विषयेऽन्येषामभिप्रायमाह
अन्ने आसायणाओ महाणुभावाण पुरिससीहाण।
तम्हा सत्तणुरूवं पुरिसेण हिए पयइयत्वं ॥५॥ अक्षरगमनिका-अन्ये-आशातनातो महानुभावानां पुरुषसिंहानां तस्मात् शक्त्यनुरूपं पुरुषेण हिते प्रयतितव्यम् ॥५॥
टीका-अन्ये स्वव्यतिरिक्ता आचार्या आहुः, 'अन्नं' इंति पाठान्तरं वा संभाव्य अन्यद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org