________________
॥ आचार्यपुङ्गव-श्रीमद्-हरिभद्रसूरिविनिर्मिता विंशतिर्विशिकाः ॥
श्रीवीरं जिनपान् गुरूंश्च निखिलान् नत्वा च वागीश्वरी, कुर्वे विंशतिविंशिकाप्रकरणग्रन्थस्य टीकां स्फुटाम्। गूढार्थस्य तनुश्रुतोऽपि गतये मत्तोऽल्पमेधाविना
मालम्ब्य श्रुतभृत्कृतीः समुदयं शिष्टञ्च लोकं क्वचिद् ॥१॥
आचार्यपुङ्गवो विशिष्टशिष्टाचारपालनाय दूरितदूरीकरणार्थं निर्विघ्नं च प्रारिप्सितप्रकरणपारप्राप्त्यै इष्टदेवतानमस्कारपूर्वं प्रवर्तमानः प्रेक्षावत्प्रवृत्तये च सम्बन्धाभिधेयप्रयोजनानि गाथाद्वयेनाह
नमिऊण वीयरायं सव्व तियसनाहकयपूर्व जहनायवत्थुवाइं सिद्धं सिद्धालयं वीरं ॥१॥ वुच्छं केइ पयत्थे लोगिगलोगुत्तरे समासेण।
लोगागमाणुसारा मंदमइविबोहणद्वाए॥२॥ अक्षरगमनिका वीतरागं सर्वज्ञं त्रिदशनाथकृतपूजं यथान्याय(ज्ञात)वस्तुवादिनं सिद्धं सिद्धालयं वीरं नत्वा मन्दमतिविबोधनार्थाय लोकागमानुसारात् कांश्चित्लौकिकलोकोत्तरान् पदार्थान् समासेन वक्ष्ये ।।१२।।
टीका-नत्वा प्रणम्य मनोवाक्कायैः कं ? वीतरागं वीतः अपगतो विशेषेण समूलं रागो यस्मात् स वीतरागस्तम् उपलक्षणं चैतद् वीतद्वेषादेः, पुनः कीदृशं ? सर्वज्ञं सर्वं चराचरं विश्वं जानातीति सर्वज्ञस्तम् उपलक्षणात् सर्वदर्शिनम्, पुनः कथम्भूतं ? त्रिदशनाथकृतपूजं त्रिदशाः सुराऽसुरास्तेषां नाथाः शक्रेन्द्राधास्तैः कृता विहिता पूजा अष्टमहाप्रातिहार्यादिरूपा यस्य स त्रिदशनाथकृतपूजस्तम्, पुनः कीदृशं? यथान्यायवस्तुवादिनं न्यायमनतिक्रम्य हेतुयुक्तिदृष्टान्तपूर्वकं वस्तु जीवाजीवात्मकं वदति निरूपयतीति यथान्यायवस्तुवादी तम्, यदि वा यथाज्ञातवस्तुवादिनं केवलालोकेन यथा ज्ञातं वस्तु तथा वदतीति यथाज्ञातवस्तुवादी तम्। अनेन विशेषणकदम्बकेन घातिकर्मक्षयात् आर्हन्त्यप्रकाशकम् अपायापगम-ज्ञान-पूजा-वचनातिशयचतुष्कं सूचितं भवति। अतः परम् अघातिकर्मक्षयात् सिद्धत्वमपुनरावृत्तित्वं च प्रदर्शयति-सिद्धं सध्यति स्म सिद्धो मुक्तस्तम् यदि वा सिद्धानि निष्ठितानि प्रयोजनानि कृतकृत्यत्वाद् यस्य स सिद्धस्तम्, सिद्धालयं सिद्धा मुक्तास्तेषाम् आलयो निवासक्षेत्रं सिद्धशिलोपलक्षितं लोकाग्रम् आलयो यस्य स सिद्धालयस्तम्। एवम्भूतं कं? वीरश्चरमतीर्थपतिस्तं वीरं तस्यासन्नोपकारित्वात्। एवम्भूतं श्रीवीरं नत्वा किमित्याह-वक्ष्ये कथयिष्ये कांश्चिद् रहस्यभूतान् हृदयस्थान् पदार्थान् पद्यते अर्थजातं एभ्यस्ते पदास्तेषामा आशयाः पदार्थास्तान्, कीदृशान् ? लौकिकलोकोत्तरान् लोके प्रसिद्धाः लौकिकास्ते च लोकोत्तराः श्रीजिनशासने प्रख्याताश्च लौकिकलोकोत्तरास्तान् समासेन संक्षेपेण प्रकरणरूपत्वात् ग्रन्थस्येत्यनेनाभिधेयमुक्तम्। अधुना स्वमतिकल्पनानिरासार्थमाह
लोकागमानुसारात लोकश्चागमश्च लोकागमौ तयोरनुसारः अनुसरणं तस्माद् न स्वमनीषिकया। ‘लोकागमानुसारः' पाठान्तरमाश्रित्य लोकागमौ अनुसरतीति लोकागमानुसारः एतच्चाचार्यस्य विशेषणम् । सम्प्रति प्रयोजनमाह-मन्दमतिविबोधनार्थाय मन्दा अतीक्ष्णा मतिर्मेधा येषां ते मन्दमतयस्तेषां विबोधनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org