________________
विंशतिर्विंशिकाः ]
प्रथमाऽधिकारविंशिका दोषान्तरमाह-यथा—यस्माद् महानुभावानाम्-अनल्पप्रभावाणां पुरुषसिंहानां-तीर्थकृतां भगवतां मार्गोच्छेदरूपा आशातना ज्ञानादिनाशरूपा जायते, तथाहि-एकदीपाद् अनेके दीपा दीप्यन्ते एकबीजाच्चानेकानि बीजानि प्ररोहन्ति तथैव एकजीवस्य धर्मे प्रवृत्तितः अनेकजीवानां धर्मे प्रवृत्तिर्जायते, भावाद्भावप्रसूतिरिति न्यायात् । एवं धर्मवृद्धिः कृता भवति। वैपरीत्ये तु धर्महानिः स्यात् परम्परया च समूलमार्गोच्छेदरूपा महाशातना, तस्मात् कारणात् शक्त्यनुरूपं यथासामर्थ्यं पुरुषेण कल्याणकाङ्क्षिणा हिते शुभोपदेशे सदाचारे च प्रयतितव्यम् उद्यन्तव्यमिति ।।५।। एवं प्रस्तुतप्रकरणरचनौचिती फलितेति प्रदर्शयन्नाह
तेसिं बहुमाणाओ ससत्तिओ कुसलसेवणाओ य।
जुत्तमिणं आसेवियगुरुकुलपरिदिट्ठसमयाणं॥६॥ अक्षरगमनिका-तेषां बहुमानात् स्वशक्तितः कुशलसेवनातश्च युक्तमिदम् आसेवितगुरुकुलपरिदृष्टसमयानाम् ।।६।।
टीका-तेषां तीर्थङ्कराणां बहुमानात् उपादेयतया हृदयदेशे गुणप्रकर्षस्थापनात् स्वशक्तितो निजसामर्थ्यानुरूपं कुशलसेवनातः स्वपरहितकरणात् चः समुच्चये युक्तमिदम् उचितं ह्यदः प्रस्तुतप्रकरणविरचनम् केषाम् ? आसेवितगुरुकुलवासपरिदृष्टसमयानाम् आसेवितं सम्यगाराधितम् अन्तेवासित्वेन गुरुकुलं गुणरलरलाकरस्थानीयम् गुरुकुलासेवनं हि सतां प्रथमो धर्म इति, अत एव परितः समन्ताद् दृष्टा अवगाढाः समयाः स्वपरशास्त्राणि यैस्ते तथा तेषाम् । स्वसामर्थ्यतः शुभे प्रवृत्तिरेव तीर्थकृतां विषये बहुमानलिङ्गमिति ।।६।। प्रस्तुतस्यैवाभ्युच्चयार्थमाह
जत्तो उद्धारो खलु अहिगाराणं सुयाओ ण उ तस्स।
इय वुच्छेओ तद्देसदसणा कोउगपवित्ती॥७॥ अक्षरगमनिका-यतः श्रुतात् खलु अधिकाराणाम् उद्धारस्तस्यैवं नैव व्युच्छेदस्तद्देशदर्शनात् कौतुकतः प्रवृत्तिरिति ॥७॥
टीका-यतो–यस्माद् उद्धारो नि!हणं खलुवक्यिालङ्कारे अधिकाराणां प्रस्तुतप्रकरणनिबद्धविषयाणां श्रुतात्-शास्त्ररूपात् न नैव तुरवधारणे तस्य श्रुतस्य एवं प्रकरणरूपेणोद्धाराद् व्युच्छेद आत्यन्तिकनाशः। कस्मात् ? तद्देशदर्शनात् तत्तच्छ्रुतस्य देशः अंशस्तस्य दर्शनाद् अवलोकनात् कौतुकप्रवृत्तिः कौतुको विशेषदर्शने जिज्ञासा ततः प्रवृत्तिः अध्ययनाध्यापनरूपा तत्र तत्र श्रुते भविष्यति। एवं यस्मात् श्रुतात् प्रस्तुतप्रकरणस्योद्धारस्तस्य व्युच्छेदो न भविष्यति प्रत्युत पुनरुज्जीवनं स्यादिति ।।७।। अत्रैव दोषमाशङ्कय परिहारमाह
इको उण इह दोसो जं जायइ खलजणस्स पीड ति।
तह वि पयट्टो इत्थं दुटुं सुयणाण मइतोसं॥८॥ अक्षरगमिनका-एक पुनरिह दोषो यज्जायते खलजनस्य पीडेति तथापि प्रवृत्त एवं दृष्ट्वा सुजनानां मतितोषम् ।।८||
टीका-यद्यपि एको मात्रः केवल इति यावत् पुनर्विशेषे स विशेषः प्रदर्श्वत एव इहप्रस्तुतप्रकरणरचनायां दोषः क्षतिः यद् यस्माद् जायते उत्पद्यते खलजनस्य दुर्जनस्य पीडा बाधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org