SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ___[६१ विंशतिर्विशिकाः ] चतुर्दशी अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका एवं आहाराइसु जुत्तवओ निम्ममस्स भावेण । नियमेण धम्मदेहारोगाओ होइ निव्वाणं॥१८॥ अक्षरगमनिका—एवमाहारादिषु भावेन यत्नवतो निर्ममस्य नियमेन धर्मदेहाऽरोगाद् भवति निर्वाणम् ||१८|| टीका-एवम् अनन्तरोक्तनीत्या आहारादिषु आहारोपधिशय्यासु भावेन ज्ञानेन तदुपयुक्तेन च युक्तवतो युक्तस्याऽथवा 'जुत्तवओ' इति स्थाने 'जत्तवओ' इति पाठं संभाव्य यलवतः प्रयत्नशीलस्य निर्ममस्य निरीहस्य नियमेनाऽवश्यंतया धर्मदेहाऽरोगाद् धर्मदेहे चारित्रकायेऽरोगाद् रोगाभावाद् भावारोग्यादित्यर्थः, भवति जायते निर्वाणम् अजरामरत्वं मोक्ष इत्यर्थः ।।१८|| अनन्तरमेव भावेन यत्नवतो यदुक्तं तदेव स्पष्टयति जाणइ असुद्धिमेसो आहाराईण सुत्तभणियाणं। सम्मुवउत्तो नियमा पिंडेसणभणियविहिणा य॥१६॥ इति भिक्षाविंशिका त्रयोदशी ।।१३।। अक्षरगमनिका-एष नियमात् सूत्रभणितानामाहारादीनामशुद्धिं जानाति पिण्डैषणाभणितविधिना सम्यगुपयुक्तश्च ॥१६॥ टीका-एष भावयतिः नियमादवश्यं सूत्रभणितानां जिनागमोपदिष्टानाम् आहारादीनां पानभोजनोपधिशय्यानाम् अशुद्धि सदोषतां जानाति समवगच्छति, आहारादिदोषानभिज्ञस्य भिक्षायामनधिकार एवेति पिण्डैषणाभणितविधिना श्रीदशवैकालिकसूत्रपञ्चमाध्ययनपिण्डनियुक्त्यादिग्रन्थोपदिष्टविधानेन सम्यग् अवितथभावेन उपयुक्तस्तदर्थोपयोगवान् चः समुच्चये जानात्युपयुक्तश्चेति ।।१६। अत्र विंशिकायां त्वेकोनविंशतिरेव गाथा उपलभ्यन्त इति । चतुर्दशी अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका अनन्तरभिक्षाविधिविंशिकामुपसंहरता ग्रन्थकारेण यदुक्तं यथेष नियमादशुद्धिं जानाति विधिनोपयुक्तश्च तदत्र विंशिकायामशुद्धिलिङ्गानि तदन्ते च भिक्षान्तरायान् वक्तुकाम आह भिक्खाए वचंतो जइणो गुरुणो करेति उवओगं। जोगंतरं पवजिउकामो आभोगपरिसुद्धं ॥१॥ अक्षरगमनिका-योगान्तरं प्रपत्तुकामा भिक्षायै व्रजन्तो यतयो गुरावाभोगपरिशुद्धमुपयोगं कुर्वन्ति ॥१॥ टीका-योगान्तरं योगो धर्मव्यापारः स च प्रस्तावात् सूत्रार्थपौरुषीलक्षणस्तं कृत्वा तदनन्तरं तदन्यो योगो भिक्षाटनलक्षणस्तं प्रपत्तुकामाः स्वीचिकीर्षवो भिक्षायै गोचरचर्यायै व्रजन्तो गच्छन्तो यतयः Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy