________________
त्रयोदशी शुद्धभिक्षाविधिविंशिका
६० ] [ विंशतिर्विंशिकाः आधाकर्मादिदोषरहिता आधाकर्मादिदोषपरिशुद्धा अपिशब्दः पूरणार्थः । आस्तां वक्ष्यमाणस्त्रीपण्डकादिदोषान् तानपि आधाकर्मादिदोषानपि दलापेक्षया प्रतिश्रयादिनिर्माणे यद्दलं व्याप्रियते तदपेक्षया - 'पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ' एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा । सा च पुरुषान्तरस्वीकृताऽपि न कल्पते । अत्र वसतिविषये स्वयमेवाऽऽत्मनैव सूत्रानुसारेण योजयेद् उन्नयेत्, तथाहि -आधाकर्म साधुप्रतिज्ञया प्राण्युपमर्दनेन साधुप्रतिश्रयं कश्चित् श्राद्धः कुर्यादिति । तथा क्रीतं मूल्येनाऽवाप्तं प्रतिश्रयादि । तथा प्रामित्यम् अन्यस्मादुच्छिन्नं गृहीतम् । तथाऽऽच्छेद्यं भृत्यादेर्बलादाच्छिद्य गृहीतम् । तथाऽनिसृष्टं स्वामिनाऽनुत्सङ्कलितम् । अभ्याहतं निष्पन्नमेवाऽन्यतः समानीतम् । एवं मूलगुणदोषदुष्टे प्रतिश्रयादौ पुरुषान्तरकृतादावपि स्थानादि न विधेयमिति । अथोत्तरगुणदोषाश्चेमे – साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्। तथा काष्ठादिभिः कुड्यादौ संस्कृतं, वंशादिकम्बाभिरवबद्धं, दर्भादिभिश्छादितं, गोमयादिना लिप्तं, सुधादिना घृष्टं, लेवनादिना मृष्टं, भूमिकर्मादिना संसृष्टं दुर्गन्धापनयनार्थं धूपादिना धूपितं कुर्यात् । तदेवम्भूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृताऽऽ सेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यात् । विशेषार्थिना श्रीमदाचाराङ्गद्वितीयश्रुतस्कन्धगतशय्यैषणाऽध्ययनतोऽवसेयमिति ।। १५ ।। वसतिविषयकस्त्रीपण्डकादिदोषानाह—
अथ
एसा वित्थीपंडगपसुरहिया जाण सुद्धिसंपुन्ना । अन्नापीडाइ तहा उग्गहसुद्धा मुणेयव्वा ॥ १६ ॥
अक्षरगमनिका — एषाऽपि स्त्रीपण्डकपशुरहिता जानीहि शुद्धिसंपूर्णा । अन्याऽपीडया तथाऽवग्रहशुद्धा मुणितव्या ||१६||
टीका — आस्तामाधाकर्मादिदोषदुष्टा शय्या, एषाऽपि आधाकर्मादिदोषपरिशुद्धाऽपि स्त्रीपण्डकपशुरहिता नारीनपुंसकगवादिविविक्ता ब्रह्मचर्यविधातकत्वादेषामिति जानीहि बोधस्व शुद्धिसंपूर्णा शुद्धयाऽनवद्यतया संपूर्णाऽविकला। अन्याऽपीडया अन्यः स्वव्यतिरिक्तप्रातिवेश्मिकादिस्तस्याऽपीडया पीडापरिहारेण, अत्र विषये श्रीवीरप्रभुः स्वयं निदर्शनं यतो वर्षाचातुर्मासेऽपि परिव्राजकानामप्रीतिनिवारणाय विजहार । तथा समुच्चये अवग्रहशुद्धा अवग्रहः अवकाशः स च वसतिस्वामिसाधर्मिकादेः सकाशाद् याचितस्तेन शुद्धा निरवद्या मुणितव्या बोद्धव्येति ॥ १६ ॥ अथैतस्या विधिपरिभोगमाहात्म्यमाह
एसा वि हु विहिपरिभोगओ य आसंगवज्जियाणं तु ।
वसही सुद्धा भणिया इहरा उ गिहं परिग्गहओ ॥१७॥
अक्षरगमनिका — एषाऽपि वसतिः खल्वासङ्गवर्जितानां तु विधिपरिभोगतः शुद्धा भणिता, इतरथा तु परिग्रहतो गृहम् ॥१७॥
Jain Education International
टीका — एषापि शुद्धिसंपूर्णाऽपि वसतिः शय्या हु प्राकृतत्वान्निश्चयत आसङ्गवर्जितानां ममत्वरहितानाम् उपलक्षणं चैतद् अमनोज्ञां वसतिं प्राप्याऽरतिवर्जितानां तुशब्दो विशेषार्थः स च विशेष उच्यत एव विधिपरिभोगतो विधिस्तु नवकल्पविहारक्रमेण साम्प्रतं च गुर्वाज्ञात आगतानां साधूनां प्रावृषि त्रिकालं ऋतुबद्धकाले चोभयकालं प्रमार्जनादिकस्तेन परिभोगत आवश्यकस्वाध्यायादिकरणेन तत्र निवसनात् शुद्धा निरवद्या भणिता समुपदिष्टा तीर्थकरगणधरैः । इतरथाऽन्यथा उक्तविपर्ययेण तुशब्दोवधारणे भिन्नक्रमश्च परिग्रहतो मूर्च्छातो गृहं गेहमेवेति ||१७|| उपसंहरन्नाह
For Private & Personal Use Only
www.jainelibrary.org