________________
६२ ]
चतुर्दशी अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका [विंशतिर्विशिकाः श्रमणाः प्राकृतत्वेन विभक्तिव्यत्ययाद् गुरौ आचार्यपार्थे सर्वत्र विहितानुष्ठानेऽवितथभावेन प्रवृत्त्यर्थं प्रस्तावाद् भिक्षाशुद्धिनिमित्तम् आभोगपरिशुद्धं ज्ञानपरिपूतम् उपयोगं प्रणिधानं प्राकृतत्वेन वचनव्यत्ययात् कुर्वन्ति विदधति। सोपयोगप्रवृत्तेस्तथासंस्काराधानेन सानुबन्धानुष्ठानहेतुभावाद् विपुलनिर्जराकारणत्वाच्च। किञ्चसोपयोगप्रवृत्तिलिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्चेति श्री हरिभद्रसूरयो योगशतकवृत्तौ। अयं विशेषः-प्राक्तना यतयो भिक्षायै व्रजन्त उपयोगं कृतवन्तः अद्यतनास्तु प्रातरेव तं कुर्वन्तीति । ||१॥ अथोपयोगपदार्थस्य संगतिपुरस्सरं भिक्षायाःकालं प्रयोजनं चाह
सामीवेणं जोगो एसो सुत्ताइजोगओ होइ।
कालाविक्खाइ तहा जणदेहाणुग्गहट्ठाए ॥२॥ अक्षरगमनिका—कालापेक्षया सूत्रादियोगतः सामीप्येनैष योगोस्तथा जनदेहानुग्रहार्थं भवति ।।२।।
टीका-कालापेक्षया मध्याह्नवेलां गृहस्थानां वा भोजनवेलामाश्रित्य, यदागमः-कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे। अकालं च विवजिजा, काले कालं समायरे ।।४।। द. वै अ.५ उ. २। अन्यथा गृहस्था अपि सुपात्रदानलाभाद् वञ्चिता भवन्तीति। सूत्रादियोगतः सूत्रार्थपौरुषीलक्षणधर्मव्यापारस्य सामीप्येन प्रत्यासन्नत्वेन एष योगो भिक्षाटनयोग उपयोगस्तदर्थमाभोगोऽपि उपयोगः कारणे कार्योपचारात् । किमर्थमेष योगः ? आचार्य आह – यथा तीर्थकरगणधरैरनुज्ञातं तथा जनदेहानुग्रहार्थं तथा तेन विधिना जनश्चगृहस्थलोकस्तस्य पुण्यानुबन्धिपुण्योपार्जकसुपात्रदाने निमित्तभावेन देहश्च धर्मसाधनलक्षणः साधुचारित्रकायो जनदेही तयोरनुग्रह उपकारस्तदर्थं भवति जायत इति ।।२।। प्रसङ्गत उपयोगस्थाननिरुपणपुरस्सरं गुर्वाज्ञामार्गणायाह
एयविसुद्धिनिमित्तं अद्धागहण? सुत्तजोगट्ठा।
जोगतिगेणुवउत्ता गुरुआणं तह पमग्गंति ॥३॥ अक्षरगमनिका—एतद्विशुद्धिनिमित्तमद्धाग्रहणार्थं सूत्रयोगार्थं योगत्रिकेणोपयुक्तास्तथा गुर्वाज्ञां प्रमार्गयन्ति ।।३।।
टीका-एतद्विशुद्धिनिमित्तं प्रस्तावाद् भिक्षाशुद्धिनिमितं तथाऽद्धाग्रहणा) अद्धा कालसमयस्तद्रहणार्थं कालग्रहणार्थमित्यर्थः, अथवा प्राकृतत्वाद् अध्वा दूरदेशान्तरगमनं तदर्थम् इत्यप्यर्थः, 'अट्ठागहणट्ठ' त्ति पाठान्तरमाश्रित्य अर्थस्य सूत्रार्थस्य आग्रहणं मर्यादया ग्रहणं तदर्थं तथा सूत्रयोगार्थं सूत्रप्राप्त्यर्थं योगोद्वहनार्थमित्यर्थः अथवा सूत्रेण सह योगः सम्बन्धः सूत्रयोगः स एवाऽर्थः प्रयोजनं येषां ते सूत्रयोगार्था यतयो योगत्रिकेण मनोवाक्कायलक्षणेन उपयुक्ताः प्रणिहिताः कायोत्सर्गे स्थित्वा भिक्षानिमित्तशुद्धिं ज्ञात्वा तथा गुर्वाज्ञां वक्ष्यमाणविधिना इच्छाकारेण संदिसह भगवन् ! इत्यादिपाठेन 'लाभ' इत्याद्याचार्याऽऽशीर्वचनादिलक्षणां यतिलोकप्रसिद्धां प्रमार्गयन्ति याचन्तीति ।।३।। ननूपयोगार्थं कायोत्सर्गे स्थित्वा किं चिन्तयन्तीत्याह
चिंतेइ मंगलमिह निमित्तसुद्धिं तिहा परिक्खंता
कायवयमणेहि तहा नियगुरुयणसंगएहिं तु॥४॥ अक्षरगमनिका-इह त्रिधा निज-गुरु-जनसङ्गतैस्तथाकायवचोमनोभिर्निमित्तशुद्धि परीक्षमाणाश्चिन्तयन्ति मङ्गलम् ।।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org