________________
२४७
२४७
युगप्रधान आ. जिनदत्तसूरिजी का जैन धर्म एवं साहित्य में योगदान
५. श्री अजितशान्तिजिनस्तवनम् ।
शक्रः सहस्रनयनोऽपि गुणावसानं
द्रष्टुं क्षमोऽस्ति न ययोर्जगदेकपत्त्योः वाचस्पतिप्रभृतयोऽपि ययोरशेषान्
वक्तुं गुणानिह नहि प्रभविष्णवः स्युः ॥ १॥ स्तोतुं तयोर्जडमतिः किमहं क्षमोऽस्मि
निर्मेरनिर्मलगुणानसमानशेषान् । त्वत्पादकम्पितफलप्रदपादप्राप्तेः
पूर्वं प्रसूनमिति भाविफलं तदग्ने ।। २ ॥ अजितमजितं रागेणाग:प्रणाशनपण्डितं
स्फुटमनिकटीभूतः श्रीणां स यो न विनौति तम् । सुरजनबन्धूनेत्रानन्दक्षणक्षणदाकरं
करणवशगो न स्वं नान्यं प्रवेत्ति स मूढधीः ॥ ३ ॥ विनमदमरराजीमौलिमालाग्रभाग
प्रवरमरकतालीभृङ्गसंसर्गशोभि। यदमलपदपद्मद्वन्द्वमद्वन्द्वन्द्यं
प्रतिदिनमनवा मौलिनाऽहं वहामि ॥ ४ ॥ जिनवरमजितं करोमि भक्त्या
कृतकृतिविनुतिं कृपाकृपाणी। कृतकुमतभिदं हृदन्तराले
नयविनययुतोऽहमेव देवम् ।। ५ ।। वन्दे शान्तिं दत्तविश्वैकशान्तिं
भ्रान्तं भूयस्तैर्न यैराश्रितोऽसौ। संसारेऽस्मिन् दुर्निवारान्तरारि
च्छेदच्छेकं मूर्तिमत्कल्पवृक्षम् ॥ ६ ॥ कासश्वासाङ्गहासादशननखमुखाक्षिक्षयग्रन्थिशोषा
तीसारश्लेष्मापित्तज्वरपवनकटीककण्ठविष्टाग्रहाश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org