________________
२४८
युगप्रधान आ. जिनदत्तसूरिजी का जैन धर्म एवं साहित्य में योगदान ज्वालावालेयलूताश्रवणजठरजाऽपानकुष्टाङ्गदाहा
न स्युस्तस्यामया योऽजितमतिविनयानौति शान्तिं च भक्त्या॥७॥ तृष्णोष्णे न पयो न मारिरपि न द्वीपी न दन्ती च नो
सिंहो न ज्वलनो न पन्नगभवा भीतिर्न भूतास्तु न । शाकिन्यो न विनायका न तु विषं नारातयो नाजयो
न क्षेत्राधिपगोत्रपाः प्रतिभयं कुर्वन्ति तोस्तौति यः ॥ ८॥ यजन्मस्नात्रकृत्यक्षणमिलदमरश्रेणिराजैः सहर्ष
कुम्भैः सच्छातकुम्भैरमृतघृतपयः पूरपूर्णेरपूर्णम् । स्वणाद्रौ कर्ममुद्राभिदभिमतपदप्राप्तुमेवाप्तकामैः
स्नात्रं चित्रं पवित्रं निजनिजपरिषत्सङ्गतैः संव्यधायि ।। ९ ।। स्नात्रं विधाय विधिना सुकृतार्थता नः
स्वर्गाधिपत्यपदवी सुरता च नीताः । इत्थं प्रमोदभरनिर्भरभाज्यमान
गात्रा मुदा ननृतुरिन्द्रगणाः सदाराः ।। १० ।। शुचिसमयसमुत्थस्थूलकालाम्बुदाली
स्तनितमधरयन्तो ध्वानतः किञ्चिदुच्चैः । मदमलिनकपोलालीनमत्तालिमाल
द्विरदपतितुरङ्गक्काणमेके च चक्रुः ॥ ११ ॥ उत्फुल्ललोचनलसल्लधुलास्यलीला
सस्मेरसस्मरमुखप्रजिताब्जभासः। पीनोन्नतस्तनभृरैर्विनताङ्गभागा
श्चञ्चद्वलित्रयविराजिततुच्छमध्याः ।। १२ ।। त्रिदशपतिपुरन्ध्यो हावभावाङ्गभङ्ग
प्रभवकिरणकेलीकीलिताशेषलेखाः। यदतिरुचिररूपं प्रेक्षमाक्षेपवत्यः
___ सदृगभिनयनृत्यं यत्पुरो हीत्यकार्षीः (र्षुः) । १३ ।। अमानबाधारहितं जिनाजित
ममानबाधारहितो जनोऽजितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org