________________
स
र ररररररररररररररररररररर वीरोदय महाकाव्यम् स्वोपज्ञ-टीका-सहितम्
प्रथमः सर्गः
श्री वीरदेवमानस्य प्रमाविक्रमशालिनम् ।
भक्त्या तदुदयस्येयं मया वृत्तिर्विधीयते ॥१॥ श्रिय इत्यादि - जयति सर्वोत्कर्षेण वर्तते स जिनोऽर्हन् स चात्र प्रबन्धविषये श्रिये स्वस्तिलक्षणायै लक्ष्म्यै, अस्तु मङ्गलकरो भवतु । यस्येयं यदीया, सा चासौ सेवा चेति यसः । समस्ताश्च ते संश्रोतारश्च तेषां जनाय समूहाय वाऽथवा मे मह्यमपि रसने समास्वादने द्राक्षेव यथा गोस्तनी तथा मृद्व मृदुप्रायाऽनुभूयते तथा हृदोऽपि हृदयस्यापि प्रसादिनी प्रसादकी भवति द्राक्षातुल्यैव । किञ्चात्रास्मिन् विषये श्रमोऽपि मनागेव न भवति ततोऽसौ मेवा खुल इति प्रचलितभाषानुकरणात् ॥१॥
कामारितेत्यादि- येन महोदयेन नोऽस्माकं कामितस्य वाञ्छितस्य सिद्धये सम्पादनार्थंकामारिता वाञ्छितविरोधिता समर्थिता स्वीकृतेति विरोधस्तत्परिहारस्तावत् कामस्य पञ्चबाणस्यारिता स्वीकृतेति । सैव भगवान् अभिजातः सुभगोऽपि नाभिजातः सौन्दर्यरहित इति विरोधस्तस्मान्नाभेर्नाम्नो महाराजस्य जातः पुत्र इति । अभिधातो नामतो वृषभो बलीवर्दः स एव समैः प्रशंसनीयैरजैश्छागैर्मान्य इति विरोधस्ततः समाजेन जनसमूहेन माननीयः स वृषभो नाम प्रथमस्तीर्थकरो गृह्यते । अत्र विरोधाभासालङ्कारः ।।२।।
चन्द्रप्रभमित्यादि - चन्द्रप्रभमष्टतीर्थंकरं नौमि यस्याङ्गस्य सारः कान्तिसौष्ठवादिरूपः स कौ पृथिव्यां मुदस्तोमं हर्षप्रकर्षमुरीचकार प्रसारितवान्, यतश्च प्रणश्यत्तमस्तया मोहस्याभावेनात्मीयपदं स्वस्वरूपं समस्य लब्ध्वाऽसौ जनः सुखं लभते । चन्द्रपक्षे कुमुदानां समूहः कौमुदश्चासौ स्तोमश्च तं तथा सुखजनो नाम चकोरपक्षी । श्लेषः ॥३॥
समस्त्वित्यादि - भो मनुजाः ! पार्श्वप्रभोस्रयोविंशाख्यतीर्थंकरस्य सन्निधये सामीप्यार्थं वो युष्माकं चित्ते बहुलाश्च ते ऊहा वितर्काश्च तेषां भावो मुहुर्विचारः समस्तु यतः काञ्चनानिर्वचनीयां सम्प्रवृत्तिं लब्ध्वा प्रसत्तिं प्रसन्नतां संलभेध्वं । पार्श्वपाषाणस्य सन्निधये बहुलोहत्वं वाऽस्तु यतः कञ्चनस्येयं काञ्चना सा चासौ सम्प्रवृत्तिश्च तां सुवर्णरूपतां धृत्वा प्रसत्तिं बहुमूल्यतां संलभेध्वमिति च ॥४॥
वीर इत्यादि - हे वीर ! त्वमानन्दभुवामुत्सवस्थानानामवीरः सुगन्धिचूर्णवद् भवसि । खलु गुणानां क्षमाधैर्यादीनां मीरः 'मीरोऽब्धिशैल-नीरेषु' इति विश्वलोचनकोशः । समुद्र एवं किन्तु जगतां प्राणिनां मध्ये अमीरः सर्वश्रेष्ठः । इ एव इकः कामः खेदो वा स न विद्यते यस्य स नेकस्तस्य सम्बोधनम् । त्वमेकः केवलो मुख्यश्च भवन्ननेकान्तमतेन स्याद्वदेनानेकलोकान् पासितमां अतिशयेन पालयसि । शाब्दिकविरोधालङ्कारः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org